SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 52 अनुसन्धान-५९ भोधरोदभोधरोदयादि च (यत्प्रभावादम्भोधिरम्भोधराळदेरुदयादि च ?), पम्फुल्यते समग्रा अपि सुरासुरनरेश्वरतीर्थङ्कर श्रीवल्लयः, शोशुष्यन्ते गवदुर्गतिः दुःखयवासकाः (?) / तदीदृशे धर्मकर्मणि प्रवर्तितव्य''मित्यादि / वादिनि सागरेन्दौ वृद्धोऽपि भद्रभाद्रपदीनाम्भोदोपमं वचः प्रपञ्चयन् आचष्ट - “भो भो आचार्यवर्या! भवतोऽवद्भिर्भवद्भिर्यदुक्तं 'धर्मस्य तप्ति(प्ति) कि(किं) न चिन्तयत ?', तदेतद् विचार्यते / सति हि धर्मिणि धर्माः चिन्त्यमानाः परिचिन्वन्ति चारुताम् / न च धर्मलक्षणो धर्मी कश्चिदुपलभ्यते यत्तप्तिचिन्तनं स[ङ्गतिम गति / कथमिति चेत् ? उच्यते, प्रमाणपथातिक्रान्तत्वात् / तदपि कथमिति चेत् ? एते ब्रूमः "प्रमाणं हि पञ्चप्रकारमुररीक्रियते / तद्यथा - प्रत्यक्षश्मनुमानरमुपमानं ३शाब्द४मर्थापत्तिश्च / तत्रापि प्रत्यक्षं पञ्चविधं - स्पर्शन१रसन२घ्राण३चक्षुः४ श्रोत्र५रूपग्राहकभेदात् / न च पञ्चविधेनाऽपि तेनैषः ग्रहीतुं शक्यः / यदेनं न कोऽपि (यन्न सः केनाऽपि) कदाप्युद्दामकामकामिनीकुचकलशवत् परिस्पृश्यते; नाऽपि भक्ष्यभोज्यलेह्यचूष्यपेयादिभेदभिन्नसरसर[स]वतीवद् रारस्यते, नाऽपि चम्पकाशोकपुन्नागनागकेसरसरोजराजिवद् जेघीयते, नाऽपि घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थसार्थवद् दरीदृश्यते, नाऽपि रणद्वेणुवीणामृदुमृदङ्गध्रोङ्कारस्फीतसङ्गीतवत् शोश्रूयते / न च वाच्यं मानसप्रत्यक्षगोचरः स स्यात्, तस्याऽपीन्द्रियानुसारित्वात् / न हि कोऽपि कदापि स्वप्नदशायामप्ये(प्य)त्यन्ताननुभूतषभूत (भूतासद्भूत ?) मनुभवति / अथ योगिप्रत्यक्षगम्योऽयमिति चेत् ? तदर्थक्तयुक्तम् (तदनर्थकमुक्तम् ?), योगिप्रत्यक्षस्यैव दुरुपपादत्वात् / ततस्तदसिद्धं यदसिद्धसाधितमिति / तदलं तद्विचारेण / __ "नाऽयमनुमानगम्यः / यतः त्रिलिङ्ग(ङ्गा)द् लिङ्गिनि ज्ञानमनुमानम् / पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षेऽसत्त्वं - विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि / यथा - अग्निमानयं सानुमान्, धूमवत्त्वाद्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः / यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति, यथा जलाशये / एवमन्वय-व्यतिरेकाभ्यां निश्चितो यो हेतुः स एव गमकः स्यात्, न यथाकथञ्चित्, तत्पुत्रत्वादीनामपि हेतुत्वापत्तेः / न चाऽत्र युष्मदङ्गीकृते धर्मधर्मिणि प्रतिबन्धुरं हेतुमुत्पश्यामः, येनाऽनुमानादपि तत्सिद्धिः /
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy