Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 67
________________ ६० अनुसन्धान-५९ विचार्यमाणं न स्थेमानमाप्नोति । यतो निर्दोषाणां कुशीचाटन-फालग्रहणादि दिव्यं कुर्वतामनुस्मृतमन्त्राणां च हुताशने शीतत्वप्रतीतिः समस्त्येव । अथैवं निबिडजडिमवननिकुञ्जोज्जासनकुञ्जरैः प्रजल्प(ल्प्य)ते वादिकुञ्जरैः । यथा कुशीचाटन-फालग्रहणादि दिव्यं कुर्वता(तां) देवतानुभावात् कृशानोः शीतत्वोपलम्भः सम्भवति । न पुनः स्वयं शीतः स्यात् । तत् कथं दोषवतां जिह्वास्फोटकदंष्ट्रिकादाहादीन्युपलभ्येरन् ? तस्मादुष्ण एव । तदप्यमात्रमेव(?)। यतो यद् दोषवतां दिव्यं कुर्वतां स्फोटकादिकमुपलभ्यते तद् अपुण्यानुमानेन तदीयदोषाविःकरणाय देवतादिवशात् सञ्जायते, न पुनर्वह्नरौष्ण्यात् । अथाऽनवद्यविद्याभिधमधुव्रतश्रेणिसंप्रीणनप्रफुल्लमल्लिकाभिः समुल्लप्यते विद्वन्मतल्लिकाभिः । यथा - क्रियतां नाम दोषवतां देवादिभिः स्फोटनादिकं तदीयदोषाविःकरणाय । परं यदि स्वाभाविकं वह्वरुष्णत्वं नाऽस्ति तत्र सर्वेषामपि जनानां वह्निसंसर्गेण स्फोटकादिकमुत्पद्यमानं दरीदृश्यते इत्यस्मात् स्वभावेनाऽप्युष्ण एवाऽऽश्रयितव्यः । तदेतदपि वावद्यमानं न विदुषामानन्दसम्पदं सम्पादयति । यतो नोष्णत्वं स्फोटकोत्पत्तिकारणं, भल्लातकराजिकादिसम्पर्केऽपि स्फोटकोत्पत्त्युपलम्भात् । न च तेषामुष्णत्वमस्ति । तन्न स्फोटकोत्पादकत्वेन वह्वरुष्णत्वं कल्पनीयमिति । ___ अथ एवं सार्वभौमयशसः प्रजल्पन्ति सुमनसः - धत्तूरकभावितानां बहूनामपि लोष्टादिषु सुवर्णज्ञानं भ्रान्तं भवितुमर्हति । श्रूयते च सर्वेषु शास्त्रेषु लोकेषु च "शतमप्यन्धानां न पश्यति" । किं च यदि बहूनामुपलम्भः प्रमाणं, तहि ज्ञानमयामूर्तत्वादिलक्षणं यथावस्थितमात्मनः स्वरूपं योगिपरिज्ञातमप्रमाणं भवति । तस्मात् स्वल्पानामपि यत् ज्ञानं सम्यक् भवति तदेव प्रमाणम् । ततश्च भवदादीनां शीतेऽपि वह्नौ उष्णत्वसंवेदनं भ्रान्तमेव । ___अथैवं प्रकटविकटकोपाटोपप्रकम्पमानतनूकैः प्रतिपाद्यते वावदूकैः । यथा - अस्मदादीनां वह्वरुष्णत्वसङ्ग्राहकं ज्ञानं भ्रान्तमिति कथं निश्चीयते ? न हि सर्वज्ञमन्तरेणाऽन्यस्यैवंविधा शक्तिरस्ति । तदेतदपि प्रवणान्तर्वाणितां प्रकटयति । यतो यथा टेकत्र महानसादौ धूम-धूमध्वजयोरविनाभावग्रहणे सति सर्वत्राऽयमसर्वज्ञस्याऽपि निश्चयो भवति, यथा - यत्र धूमस्तत्र वह्निर्भवत्येवेति । तथाऽत्राऽप्येक(?)ज्ञानस्य विपरीतार्थग्राहकस्य भ्रान्तत्वं निश्चीयते एव । तथा

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161