Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ 54 अनुसन्धान-५९ प्रत्यनुमानस्याऽप्रवृत्तेः / ततो भवति सकलदोषरहितादतो हेतोर्ज्ञानप्रकर्षसिद्धिः / न च सर्वथोच्छेदः सम्भावयितव्यः, उपयोगस्वभावत्वात् जीवस्य। उपयोगक्षणे जीव इति वचनात् स्फूर्तिर्भवति / नवकर्ममलमलीमसत्वाद् विशुद्धेरभावाद् न ज्ञानप्रकर्षो भवतीति वाच्यम्, अनुमानत्वतो विशुद्धिसद्भावसिद्धेः / तथाहि - तथाविधो विवक्षितः कश्चिद् जीवः सम्भवदत्यन्तविशुद्धिकोऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वात् / यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलोपोपेतः, स स सम्भवदत्यन्तविशुद्धिकः / यथा क्षारमृत्पुटपाकादिविशुद्धिकारणोपेतो जात्यो रत्नविशेषः / तथाच तथाविधो विवक्षितः कश्चिज्जीवः प्रकर्षप्राप्ततपश्चारित्रानाश्रवध्यानयोगनिरोधविशुद्धिकारणकलापोपेतः, तस्मात् सम्भवदत्यन्तविशुद्धिक इति। तथा तथाविधस्य कस्यचिद् द्रव्यजीवस्याऽष्टादश पापस्थानोपार्जितं कर्म प्रतिनियतविशिष्टसामग्रीसद्भावे सत्यत्यन्तं वियुज्यते, आवृत्तिरूपत्वात् / यद्यदावृतिरूपं तत्तदत्यन्तं वियुज्यते, यथा प्रतिनियतवियोजकभावसामग्रीसद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् / तथाचेदमष्टादशपापस्थानोपाजितं ज्ञानाद्यावृतिरूपं कर्म, तस्मादत्यन्तं वियुज्यते इति / न चेदमसिद्धत्वादिदूषणदुष्टं, निरवद्यत्वात् / अतः सकलकर्ममलवियुक्तो जीवो ज्ञानस्वभावः सकलार्थग्रहणप्रवणः सर्वज्ञः / किञ्च सर्वे भावाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् / यद्यत् प्रमेयं तत्तत् प्रत्यक्षं, यथा घटादि / प्रमेयं वतथच (तथा च) लोकालोकस्वभाववस्तु, तस्मात् कस्यचित् प्रत्यक्षम् / यस्य च प्रत्यक्षं स सर्वज्ञ इति / / तथाच सम्भवति कश्चित् सर्वार्थसाक्षात्कारी पुरुषः, अनुपदेशालिङ्गाविसंवादिविशिष्ट-दिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् / यो यो यषयोऽ(यद्विषयकाऽ)नुपदेशालिङ्गाविसंवाद्युपदेशदायी स स तत्साक्षात्कारी दृष्टो, यथा अस्मदादिः स्वयमनुभूते अर्थे, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायी च कश्चित्, तस्मात् तत्साक्षात्कारीति / न चाऽयमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्याऽस्मदादिष्वप्यविरामेण विद्यमानत्वात् / नाऽप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्याऽसाक्षात्कारिणः सर्वथा निवृत्तेः / नाऽपि विरुद्धः, विपक्षतोऽत्यन्तव्यावृत्तत्वात् /

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161