SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 54 अनुसन्धान-५९ प्रत्यनुमानस्याऽप्रवृत्तेः / ततो भवति सकलदोषरहितादतो हेतोर्ज्ञानप्रकर्षसिद्धिः / न च सर्वथोच्छेदः सम्भावयितव्यः, उपयोगस्वभावत्वात् जीवस्य। उपयोगक्षणे जीव इति वचनात् स्फूर्तिर्भवति / नवकर्ममलमलीमसत्वाद् विशुद्धेरभावाद् न ज्ञानप्रकर्षो भवतीति वाच्यम्, अनुमानत्वतो विशुद्धिसद्भावसिद्धेः / तथाहि - तथाविधो विवक्षितः कश्चिद् जीवः सम्भवदत्यन्तविशुद्धिकोऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वात् / यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलोपोपेतः, स स सम्भवदत्यन्तविशुद्धिकः / यथा क्षारमृत्पुटपाकादिविशुद्धिकारणोपेतो जात्यो रत्नविशेषः / तथाच तथाविधो विवक्षितः कश्चिज्जीवः प्रकर्षप्राप्ततपश्चारित्रानाश्रवध्यानयोगनिरोधविशुद्धिकारणकलापोपेतः, तस्मात् सम्भवदत्यन्तविशुद्धिक इति। तथा तथाविधस्य कस्यचिद् द्रव्यजीवस्याऽष्टादश पापस्थानोपार्जितं कर्म प्रतिनियतविशिष्टसामग्रीसद्भावे सत्यत्यन्तं वियुज्यते, आवृत्तिरूपत्वात् / यद्यदावृतिरूपं तत्तदत्यन्तं वियुज्यते, यथा प्रतिनियतवियोजकभावसामग्रीसद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् / तथाचेदमष्टादशपापस्थानोपाजितं ज्ञानाद्यावृतिरूपं कर्म, तस्मादत्यन्तं वियुज्यते इति / न चेदमसिद्धत्वादिदूषणदुष्टं, निरवद्यत्वात् / अतः सकलकर्ममलवियुक्तो जीवो ज्ञानस्वभावः सकलार्थग्रहणप्रवणः सर्वज्ञः / किञ्च सर्वे भावाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् / यद्यत् प्रमेयं तत्तत् प्रत्यक्षं, यथा घटादि / प्रमेयं वतथच (तथा च) लोकालोकस्वभाववस्तु, तस्मात् कस्यचित् प्रत्यक्षम् / यस्य च प्रत्यक्षं स सर्वज्ञ इति / / तथाच सम्भवति कश्चित् सर्वार्थसाक्षात्कारी पुरुषः, अनुपदेशालिङ्गाविसंवादिविशिष्ट-दिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् / यो यो यषयोऽ(यद्विषयकाऽ)नुपदेशालिङ्गाविसंवाद्युपदेशदायी स स तत्साक्षात्कारी दृष्टो, यथा अस्मदादिः स्वयमनुभूते अर्थे, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायी च कश्चित्, तस्मात् तत्साक्षात्कारीति / न चाऽयमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्याऽस्मदादिष्वप्यविरामेण विद्यमानत्वात् / नाऽप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्याऽसाक्षात्कारिणः सर्वथा निवृत्तेः / नाऽपि विरुद्धः, विपक्षतोऽत्यन्तव्यावृत्तत्वात् /
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy