SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जून - 2012 3 महाम्भोधिध्वनिगम्भीरगर्जितम् ऊर्जितप्रभञ्जनप्रेर्यमाणध्वजपटप्रान्तप्रचलत्कर्णतालम् अन्तरालस्थूलचरणचतुष्टयप्रतिष्ठितम् अनवरतपरिचलत्प्रबलशुण्डादण्डडामरम् अनतिनिकटनिषण्णनिरन्तरभयङ्करहुंकारमुखरमहामात्रप्रदीयमानस्थूलकवलकवलनाव्याकुलं मदकलं गजराजमालोक्य विकल्पयति - किमिदमन्धकारनिकुरम्बं मूलकान् कवलयति ? किं वा वारिवाहोऽयं बलाकावान्वर्षति गर्जति च ? यद्वा बान्धवोऽयम्, “राजद्वारे श्मशाने च यः तिष्ठति स बान्धवः" इति वचनात् / अथवा योऽयमासन्नमेदिनीपृष्ठप्रतिष्ठायी पुरुषः तस्य छायेयं स्त्यानीभूता इति च / दूषयति च - नाद्यः पक्षो अन्धकारविस्तरस्य सूर्पयुगलप्रस्फोटनाभावात् / नाऽपि द्वितीयः, स्तनयित्नोः स्तम्भचतुष्टयाभावात् / नाऽपि तृतीयः, बन्धोरस्मदर्शननिषेधनलगुडभ्रमणासम्भवात् / नाऽपि तुरीयः, नहि नरशिरःशतोद्गिरणनिगरणं सम्भवति छायायाः / ततो न किञ्चिदेतदिति / न चैतावता मतङ्गजस्वभावो व्यावर्तते / एवं सर्वज्ञोऽपि न भवद्विकल्पैरपस्यते / सकलप्रमाणप्रतीतस्याऽपि चाऽस्याऽपलापे सुखदुःखादेरप्यपलापः प्रसज्येत इति स्थितमस्ति सर्वज्ञः // इति श्रीसर्वज्ञाभावनिराकरणं नाम प्रकरणं सम्पूर्णम् // सर्वज्ञव्यवस्थापनावादः इह केचित् त्रिभुवनोदरविवरवति-देशकालस्वभावविप्रकृष्टेतरपदार्थसार्थावलोकनसमर्थ-केवलालोकसम्पदं गतालिङ्गितं पुरुषसत्त्वं न प्रतिपद्यन्ते / तत्संमोहापोहाय प्रमाणमारभ्यते / तद्यथा - ज्ञानस्य तारतम्यं क्वचिद् विश्रान्तं, तरतमशब्दवाच्यत्वात् / यद्यत् तरतमशब्दवाच्यं, तत्तत् क्वचिद् विश्रान्तं, यथा परिमाणम् / तथा तरतमशब्दवाच्यं च ज्ञानं, तस्मात् कुत्रचिद् विश्रान्तमिति / न चाऽयमसिद्धो हेतुरेकेन्द्रियादीनां सकलश्रुतज्ञानरत्नरत्नाकरपारङ्गतानां च ज्ञानस्य तारतम्येनोपलब्धेः / नाऽपि विरुद्धत्वमाद्धत्व (मसिद्धत्व?) माशङ्कनीयं, ज्ञानविकलसकलकुम्भादिभ्यो भावेभ्योऽत्यन्तं व्यावर्तमानत्वात् / नाऽप्यनैकान्तिकतोद्भावनीया, विपक्षतः सर्वथा व्यावृत्तयोगत्वादेव / नाऽपि कालात्ययापदिष्टत्वं साधनस्याऽस्य सम्भावनीयं, प्रत्यक्षादिप्रमाणां(णा)बाधितक्र[म?] निर्देशानन्तरं प्रयुक्तत्वात् / नाऽपि प्रकरणसमोऽयं हेतुः, विपर्ययसाधकस्य
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy