SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ जून - 2012 45 एवं न च तथाविधोपदेशस्य वृद्धपरम्परायातत्वादसिद्धं तत्साक्षात्कारित्वम् / तेषां रागादिमत्त्वेन तथाविधोपदेशदानाभावात् / न चाऽनेन युक्तिकलापेन शिशिरकरशेखरसुगतकपिलानामपि सर्वज्ञतापत्तिः, कथम् ऋषभवर्धमानादेः प्रतिनियतस्यैव सर्वज्ञत्वं भवतीति वाच्यम् / तदुक्ततत्त्वानां प्रमाणोपपत्तिभिर्बाध्यमानत्वात् / तथाहि - सदाशिवोऽभ्युपगम्यते नैयायिकैर्वैशेषिकैश्च महेश्वरः / तस्य च तत्त्वप्रणीतिरेव न घटते विमुखत्वात् / वैमुख्यं शरीररहितत्वात् / शरीररहितत्वं च [धर्माधर्मविकलत्वात्] / धर्माधर्मविकलत्वं च संसारिजीवविलक्षणत्वात् / तदुक्तं - "विमुखास्या(स्यो)पदेष्ट(ष्ट्र)त्वं, श्राद्धगम्यं परं यदि / वैमुख्यं वितनुत्वेन, तत्त्व(त्त्वं) धर्माद्यभावतः // " किञ्च, महेशेन षट् तत्त्वानि निरूपितानि / तत्र नव द्रव्याणि पृथिव्यादीनि मनोऽन्तानि प्रतिपादितानि / तत्सङ्ख्या च व्यभिचरति, तमश्छायादेरपि द्रव्यत्वेन घटमानत्वात् / तदुक्तं - "तमः खलु चलं नीलं, परापरविभागवत् / इतरद्रव्यवैधाद्, नवभ्यो भेत्तुमर्हति // " "आतपः कटुको रूक्षश्छाया मधुरशीतला // " इत्यादिवचनाद् / दिक् पुरुषविवक्षिताकाशप्रदेशव्यतिरेकेण न काचिदुपलभ्यते न घटते वा विचार्यमाणा। अतः तस्या अपि न सत्त्वम् / मनोऽप्यणुपरिमाणं नित्यद्रव्यरूपं न किञ्चिद् घटते / अतो व्यभिचार्यभिधायकत्वात् कथं तस्य सर्वज्ञत्वम् ? तन्मार्गानुसारि कणादादिमुनिप्रणीतशास्त्राणामपि न तत्त्वाभिधायकत्वम् / तदभावाच्च न शास्त्रत्वमिति / तथा सुगतस्याऽपि (सुगतकपिलादेरपि ?) इहलोकपरलोकआगोपालाङ्गनाप्रतीतव्यवहारबाधितैकान्ता(न्त)क्षणिकप्रकृतिविकार-सामान्यसत्कार्याविर्भावतिरोभावादिरूपपदार्थप्रतिपादकस्य कथं सर्वज्ञत्वं जाघटीति ? ततश्च सामर्थ्याद् ऋषभवर्धमानादय एव सर्वज्ञाः, युक्तिप्रमाणोपपत्तिव्यवहारघटमानकयथावस्थितार्थाभिधायकत्वात् // इति श्रीसर्वज्ञव्यवस्थापनावादः / /
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy