Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 423
________________ ३९४ श्रीअजितप्रभुचरितम् सर्गः-६ इयं चाऽमृतवल्लीव, न च तस्या इहागतिः । सम्भाव्या न च मे मित्रमसम्बद्धप्रलापकम् ।।३४३।। इति चिन्तापरोऽथैष, सुहृदाऽवादि मा मुहः । दैवाल्लोके घटते हाऽघटमानमपि क्षणात् ॥३४४॥ वसुदत्तोऽवदत् 'किं नु, सैवेयं सुप्रभाङ्गजा ?' । अवादीत् सुहृदामेति, वसुर्भूयोऽप्यभाषत ॥३४५।। 'सुहृद्भिर्मत्पुरः काणा, कुरूपाणां च साऽवधिः । यदजल्प्यत तत् किं तु,' प्रोचेऽथ मतिमन्दिरः ॥३४६।। 'त्वं बालिशोऽसि यत्केलीकिलानां तादृशां वचः । प्रत्येषि यदि वा दोषो, न ते तेषां च नाऽसकौ ॥३४७|| किन्तु तस्याः पूर्वजन्मविहितं कर्म किञ्चन । उदीर्णं तेन सा दुःखमियत्कालमदोऽन्वभूत्' ॥३४८॥ इति मित्रगिराऽऽत्मानमविमृश्य विधायिनम् । निन्दन् कमलिनी प्रेम्णाऽनाय[य]त् स निजौकसि ॥३४९।। कमलिन्या सममथो, भजन् वैषयिकं सुखम् । निनाय वासरान् भूरीन्, क्षणवत्तुष्टमानसः ॥३५०॥ पितर्यथ कथाशेषे, गृहस्वाम्यं श्रयन्नयम् । सिषेवे धर्म-कामा-ऽर्थान्, यथाकालं महाशयः ॥३५१॥ नाम्ना कमलवदनमवधिज्ञानिनं मुनिम् ।। नत्वाऽन्येद्युः सभार्योऽसौ, देशनामशृणोदिति ॥३५२॥ 'तत्त्वातत्त्वपरिज्ञानविमूढैः क्रूरवर्तिभिः । गिराऽपि सहसा कर्म, बध्यते दुर्विपाकदम् ॥३५३॥

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502