Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४४०
श्रीअजितप्रभुचरितम् सर्गः-६ पदे पदे जनैः क्लृप्तमङ्गलो गुरुभिर्महैः । प्रभावयन् प्रवचनं, चक्री प्राप जिनान्तिकम् ॥८०७॥ विशेषकम् ॥ भगीरथधरानाथोपनीतयतिवेषभृत् । चतुर्यामामथो दीक्षामजितेशादुपाददे ॥८०८॥ कुमारैर्जह्वप्रमुखैः, समं जग्मुश्च ये पुरा । प्राव्राजिषुस्तदा तेऽपि, नृप-सामन्त-मन्त्रिणः ॥८०९॥ अनुशिष्टिमयीं तेषां, कृत्वाऽर्हन् देशनामथ । अन्ते प्रथमपौरुष्या, देवच्छन्दमशिश्रियत् ॥८१०॥ ततो गणधरप्रष्ठः, पादपीठं प्रभोः श्रितः । चक्रे द्वितीयपौरुष्यां, प्रभुवद्धर्मदेशनाम् ॥८११।। स्वं स्वं स्थानं ततः प्रापुर्हष्टचित्ताः सुराऽसुराः । भगीरथादयोऽप्यन्तश्चक्रिसत्त्वैकशंसिनः ॥८१२॥ चक्रिसाधुरथो पृथ्व्यां, विहरन् प्रभुणा समम् । अध्यैष्ट द्वादशाङ्गानि, नचिरात् सूत्रतोऽर्थतः ॥८१३।। नित्यं प्रमादरहितः, सुसमाहितमानसः । दशधा यतिनां धर्मं, स सम्यक् पर्यपालयत् ॥८१४॥ अस्मि तीर्थेशितुर्भ्राता, भरतस्याऽधिपोऽपि च । इत्यहङ्कारलेशेनाऽप्यबाध्यत न सन्मुनिः ॥८१५॥ इति प्राज्यं बिभ्रद्विनयमसमैरार्जवमुखैगुणैस्तैस्तैर्धिन्वन्, विमलहृदयं साधुनिचयम् ।

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502