Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
दृढसम्यक्त्वे सुलक्षणा - शुद्धभट्टयोः कथा तदग्रहारवास्तव्यो, मिथ्यादृष्टिर्द्विजव्रजः ।
चकार शुद्धभट्टस्य, निन्दामिति निरर्गलम् ॥५०॥
धिगेतेन दुराशेन, कान्तामोहितचेतसा । कुल क्रमागतो धर्मः, सर्वोऽपि परितत्य ॥ ५१ ॥ कुल-जाती अवमते, गुरु-देवावपाहृतौ । दत्तो वेदोक्तनिःशेषक्रियाणां ही जलाञ्जलिः ॥५२॥ इत्यादिद्विजदुर्वाक्यान्यवज्ञाय महाशयौ । तौ दम्पती श्राद्धभावाच्चेलतुर्न मनागपि ॥ ५३ ॥ सुलक्षणाऽन्यदाऽसूत, सुतं सल्लक्षणान्वितम् । स्ववैभवानुसारेण, द्विजो जन्ममहं व्यधात् ॥५४॥ माघमासे द्विजोऽन्येद्युः, प्रातरादाय तं सुतम् । धर्मार्थाग्निष्टिकां विप्रपर्षत्परिवृतामगात् ॥५५॥ विप्रास्तेऽथ समं प्रोचुः, सासूयाः श्रावकोऽसि भोः ! । तद्दूरं गच्छ नो युक्तं, द्विजातिषु तवाऽऽसितुम् ॥५६॥ त एवमाक्रोशकृतस्तां धर्माग्निष्टिकां द्रुतम् । वेष्टयित्वा स्थितास्तस्य, प्रवेशं व्यतरन्न हि ॥५७॥ वीक्षापन्नोऽथ सम्यक्त्वस्थिरधीः स द्विजाग्रणीः । समक्षं पर्षदस्तस्या, व्यधात् संत्यापनामिमाम् ॥५८॥ 'सम्यक्त्वं चेज्जिनादिष्टं, न भवाब्धिवहित्रकम् । अनेकान्तस्वरूपं चेन्न च वस्तु यथातथम् ॥५९॥
१. निर्बाधम् । २. प्रतिज्ञाम् ।
४४७

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502