Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४४८
श्रीअजितप्रभुचरितम् सर्गः- ७ ममापि च मनो बाढं, न चेत् प्रवचने स्थिरम् । तन्मे सूनुरयं जातवेदसाऽनेन दह्यताम् ॥६०॥ अदश्चेत् सर्वमप्यस्ति, तर्हि मे तनुजन्मनः । अमुष्य वारिवच्छैत्यं, भजताज्ज्वलनो ज्वलन्' ॥६१।। इत्युक्त्वा रोषमाञ्जिष्ठनेत्रो रोभसिको द्विजः । पावके तत्र चिक्षेप, तं करस्थं स्तनन्धयम् ॥६२।। मूर्खेण धिग् धिगेतेन, दग्धो दग्धो निजः शिशुः । इत्याक्रोशपरा पर्षत्, तुमुलं बहुलं व्यधात् ॥६३॥ तत्रस्थैका च सम्यक्त्वशालिनी व्यन्तरी तदा । दाहशक्तिं जहाराऽग्नेः, कराभ्यां च दधौ शिशुम् ॥६४॥ प्राग्विराद्धव्रता सा हि, व्यन्तरीत्वमुपाययौ । आत्मनो बोधिलाभं चाऽपृच्छत् केवलिनं मुनिम् ॥६५॥ मुनिर्जगाद 'सुलभा, बोधिस्ते भाविनी ध्रुवम् । भवेः किन्तु समुधुक्ता, सम्यक्त्वस्य प्रभावने' ॥६६॥ इत्येषाऽर्हत्प्रवचनं, स्थाने स्थाने स्वशक्तितः । प्रभावयन्ती तत्रागात्, तं जुगोप च बालकम् ॥६७॥ आविर्भूय च विप्राणां, समक्षं तं द्विजोत्तमम् । साऽश्लाघिण्टेति सम्यक्त्वस्थिरचित्त ! चिरं जय ॥६८।। धन्योऽसि जन्म ते श्लाघ्यं, कुलमत्युत्तमं तव । यदित्थं दृढतां धत्से, सम्यक्त्वे विमलाशय ! ॥६९।। १. साहसिकः । २. बालम् ।

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502