Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 487
________________ श्रीअजितप्रभुचरितम् सर्गः- ७ सम्यक् परिणतो जैनोऽन्यथा संवेगभासुरः । कुतो वचनविन्यासो, भवतीदृक् सुनिर्मलः ? ॥१६२॥ युग्मम् ॥ अन्यच्चास्य मनः प्राग्वद्, दृढरागधरं मयि । नाधुना लक्ष्यते तत्त्वविज्ञानां लक्षणं ह्यदः ॥१६३।। तद्यदीच्छेदसौ तातोऽप्यमुष्मै मां ददाति च । तदुद्वहाम्यमुं जैने, धर्मे कुर्वे च सुस्थिरम् ॥१६४॥ ततः श्रेष्ठी स्वपुत्र्यास्तं, लक्षयित्वाऽऽशयं शुभम् । अचिन्तयदनेनाऽस्या, उपयामोऽथ युज्यते ॥१६५॥ रूपादिगुणसम्पत्तिरनुरूपा पुराऽपि हि । अधुना जिनधर्मेऽपि, स्थैर्यमस्य निरीक्ष्यते ॥१६६।। एवं ध्यात्वा क्षणं धर्म, निशम्य च गुरोर्मुखात् । तमादृतो निजं गृहं, निनाय श्रेष्ठिपुङ्गवः ॥१६७।। सम्मानपूर्वमाख्यच्च, 'धन्योऽसि त्वं महायशः ! । यत् सारे सर्वविद्धर्मे, निरतो विरतोंऽहसः ॥१६८॥ सार्मिकस्य ते सर्वं, मदोकःसारमप्यदः । साधारणं विजानीहि, पुत्रीमानं पुनः कियत् ॥१६९।। कृत्वाऽनुग्रहमेनां तत्, त्वमुद्वह महामते !' । इत्युक्त्वा श्रेष्ठिराट् चक्रे, तयोः पाणिग्रहोत्सवम् ॥१७०॥ दिनानि कतिचित्तत्र, सोऽस्थापि श्रेष्ठिना ततः । पित्रोर्लेखे[न] सोत्कण्ठोऽगात् स्वस्थानं वधूयुतः ॥१७१॥ विनयं विदधानाऽपि, विशङ्कश्रेष्ठिभूरथ । आसीच्छ्वशुरवर्गस्याऽनिष्टा धर्मविभेदतः ॥१७२।।

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502