Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 495
________________ ४६६ श्रीअजितप्रभुचरितम् सर्गः- ७ सम्यक्त्वं सुगतिप्रदं भवमहादावाम्बुवाहायितं, सेवन्ते सुरवृक्षधेनुमणयस्तेषां करेऽवस्थिताः ॥२४५।। [शार्दूलविक्रीडितवृत्तम्] ॥ इति सम्यक्त्वमाहात्म्येऽमरदत्तभार्यादृष्टान्तः ॥ ॥ श्री ॥ ग्रं. १६५ अक्षर २४ ॥ जगत्प्रभोर्देशनयाऽनया तदा, मोहान्धकारोष्णगभस्तिकल्पया । द्विजाः परे चापि जना जिनोदिते, धर्मे प्रबोधं स्थिरतां च लेभिरे ॥२४६॥ __ [उपजातिवृत्तम्] संसारकाराग्रहतोऽतिभीतः, स्फीतप्रबोधोऽथ स शुद्धभट्टः । सा भट्टिनी च व्रतमाप्य नाथात्, सत्केवल श्रीकलितावभूताम् ॥२४७॥ [इन्द्रवज्रावृत्तम्] आनन्दयन् भव्यजनाम्बुजाली, सद्गोभरापास्ततमःसमूहः । जिनेशसूरो निजपादचारैः, पवित्रयामास महीं समन्तात् ॥२४८।। [उपजातिवृत्तम्] इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते __ श्रीअजितप्रभुचरिते आनन्दाङ्के महाकाव्ये दृढसम्यक्त्वशुद्धभवृत्तान्तप्रस्तावागताऽमरदत्तभार्या__ कथानकनिरूपणो नाम सप्तमः सर्गः ॥ [ग्रं.] २५१॥ आदितः ४७३४ अ. २१ ॥श्री॥ श्रीअञ्चलगच्छे श्रीधर्ममूर्तिसूरिविजयराज्ये आचार्यश्रीकल्याणसागरसूरि तच्छिष्य वा.श्रीसौभाग्यमूर्तिलिखितं भद्रं भूयात् ॥

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502