Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४६३
सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् नभःस्थितैवं घोषन्ती, भूपादीनां पुरः सुरी । तस्याः श्वशुरवर्गस्य, सर्वं दुचॅम्भितं जगौ ॥२१४।। स्तुत्वा सशीलं सम्यक्त्वं, विमलाया मुहुर्मुहुः । अन्तर्दधे क्षणादेषा, शासनोन्नतिकारिणी ॥२१५।। निन्दन्नात्मानमस्रौघपूर्णनेत्रोऽमरोऽप्यथ । प्रोचे 'प्रियेऽपराधो नः, क्षम्यतामविवेकिनाम्' ॥२१६।। अथ क्रुद्धो महीनेता, नयशाली नयोज्झित[म्] । तस्याः श्वशुरवर्गं द्राग्, निग्रहीतुं प्रचक्रमे ॥२१७॥ बाढमभ्यर्थनापूर्वं, सा तु निर्मलमानसा । प्रत्यषेधत् क्षमानाथं, क्षमागुणवि[भू]षिता ॥२१८॥ संविग्ना व्रतमादित्सुर्भवभावविभाविका । नन्तुं चचाल भुवनलोचनाख्यगुरूनथ ॥२१९।। ततो नृपेण सा प्रोचे, भद्रेऽद्य प्रभृति स्वसा । मम त्वमसि तद्धर्मकर्मठा तिष्ठ मद्गृहे ॥२२०।। शेषा अपि जना बाष्पपूरापूर्णदृशो भृशम् । युक्तं युक्तमिदमिति, सादरं न्यगदंस्तदा ॥२२१।। ततश्च विमलाऽवादीद्भग्नाऽहं भवदुःखतः । तदपोहक्षमां दीक्षां, कक्षीकुर्वे क्षमापते ! ॥२२२॥ नूनं जैनव्रताऽगस्तेः, क्लेशवाडवदारुणः । अपारोऽपि भवाम्भोधिर्भासते चुलुकोपमः ॥२२३॥ अद्याहं मानुषं जन्म, प्राप्तं भाग्यशतैर्यदि । व्रतं विना वृथा निर्गमयाम्येषा हताऽस्मि तत् ॥२२४।।

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502