Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 491
________________ ४६२ श्रीअजितप्रभुचरितम् सर्ग:- ७ ज्ञातशीला त्वमद्यापि, किं स्वं स्वं वितपस्यहो !' । इति श्रुत्वाऽपि सा तूष्णी, स्थिता स्वहिततत्परा ॥२०४॥ ततः प्रगे परिहितशुद्धवासा महाशया । पूजयित्वा जिनान् जैनी, देवतां प्रणिधाय च ॥२०५।। परमेष्ठिनमस्कारं, स्मरन्ती श्वशुरादिभिः । सशकैर्वार्यमाणाऽपि, वाञ्छन्ती शुद्धिमात्मनः ॥२०६।। कुसुमा-ऽक्षतसम्पूर्णपाणिः पृथ्वीश्वरादिभिः । पुरस्कृता दृश्यमाना, जनैः कौतूहलान्वितैः ॥२०७।। तीरं हृदस्य तस्याऽऽप्याऽमरदत्ताभिधं पतिम् । मुक्त्वा यदि मयाऽकाङ्क्षि, मनस्यप्यपरो नरः ॥२०८।। तन्मा स्म भून्ममोत्तार, इत्याद्युक्त्वा स्फुटाक्षरम् । हाहारवाकुले लोके, हृदे झम्पामदादियम् ॥२०९॥ पञ्चभिः कुलकम् ॥ झटित्यचलसम्यक्त्वशीलवैभवरञ्जिता । सम्यग्दृष्टिः सुरी रत्नमय्यां नावि स्वशक्तितः ॥२१०॥ विकृतायां रत्नपीठे, महार्हे विनिवेश्य ता[म्] । जलादुत्तारयामास, पुष्पवर्षं वितन्वती ॥२११॥ युग्मम् ॥ मङ्गलातोद्यनिर्घोषं, दिवि देवास्तदा व्यधुः । तुष्टुवुश्च जना एनां, विस्मयस्मेरलोचनाः ॥२१२।। स्वर्गापवर्गसुखदं, कल्याणद्रुमकाननम् । कष्टभूधरदम्भोलि नं जयति शासनम् ॥२१३॥ १. आत्मानम् ।

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502