Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम्
किञ्चाऽयशोऽस्मादृशानां चेद्वदन्ति वदन्तु तत् । मन्निमित्तं तु किं धर्मे, ब्रुवते वचनीयताम् ॥१९३॥ यद्युपेक्षे च धर्मेऽपि, विगानमुदितं जडैः । नूनमेषा भवेयं तद्दीर्घसंसारभाजनम् ॥१९४॥ तन्मे कालोचितं वक्तुं युक्तमेवेति सा बहिः । निर्गत्य श्वशुरवर्गं प्रेयसोऽध्यक्षमब्रवीत् ॥ १९५॥ 'युष्मदुक्तमियत्कालं, न्यक्षं क्षान्तिपरायणा । अक्षाम्यं बिभ्यती क्रोधविपाका[द]तिदारुणात् ॥१९६॥ [इ]दानीं त्वयशो धर्मे, निर्मले मन्निमित्तकम् । प्रोच्यमानं न जीवन्ती, सहिष्येऽहं कथञ्चन ॥१९७॥ तस्मादत्र समीपस्था, विमलाख्याऽस्ति या नदी । तस्या मध्ये महापद्माभिधानोऽस्ति महाहूदः ॥१९८॥ द्विक्रोशाऽऽयाम-विष्कम्भे, तत्राऽगाधजले प्रगे । क्षेप्स्यामि ध्रुवमात्मानं, जनानां वश्च पश्यताम् ॥१९९॥ यद्यशुद्धा ततस्तत्र, मग्नाया मे मृतिर्ध्रुवम् । युष्माभिर्भणितं चैवं, सर्वं यास्यति सत्यताम् ॥ २००॥
शुद्धा च चेत्तदा धर्मप्रभावाद्विगतापदः । भावी मे गोष्पदमिव, सुतरोऽसौ महाहूदः ॥ २०१ ॥
ततश्च लक्ष्मरहिता, विधास्ये स्वसमीहितम् ।
तत् किमु क्रियते व्यर्थो, युष्माभिस्तुमुलोऽतुलः ? ॥२०२॥ कुपिताभ्यामथो श्वश्रूश्वशुराभ्यामभण्यत । 'अविगुप्ता पुरे कृत्स्ने, न स्थास्यति भवत्यपि ॥ २०३ ॥
४६१

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502