Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४५५
सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् सर्पिभॊजनतोऽजीर्णदोषः खलु समुत्थितः । निवृत्तिं लभते नैव, भूयस्तस्यैव भोजनात् ॥१३१।। किन्तु तद्भोजनात् कृत्वोपरमं मतिमद्वरः । क्रमेण लभते दोषनिवृत्तिं विश्रुतं ह्य[द]: ॥१३२॥ एवं पापमु[प] चितं, जीवघातादिहेतुभिः । तन्निवृत्तो दयाशाली, क्षपयेदिति युक्तिमत् ॥१३३।। स्नानाद् बाह्यमलस्यापि, सम्यक्शुद्धिमपश्यताम् । अन्तर्मलापनयनमिच्छतां साहसं महत् ॥१३४॥ व्यासादयोऽपि तन्वन्तः, सम्यक्तत्त्वविचारणाम् । अवस्तुत्वं जलस्नानस्योचिवांसः स्फुटं यथा ॥१३५।। नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः, स बाह्याभ्यन्तरः शुचिः ॥१३६।। चित्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैधौतं, सुराभाण्डमिवाशुचि ॥१३७|| आत्मा नदी संयमपुण्यतीर्था, सत्योदका शीलतटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र !, [न] वारिणा शुध्यति चान्तरात्मा ॥१३८||
[उपजातिवृत्तम्] आरम्भे वर्तमानस्य, जीवघातादिवर्त्तनैः । मैथुनं सेवमानस्य, कुतः शौचं युधिष्ठिर ! ? ॥१३९।। दयालुर्वक्ति यः सत्यं, परादत्तविवर्जकः । ब्रह्मचारी च निःसङ्गः, शुचिर्भारत ! नित्यशः ॥१४०।।
१. विरामम् । २. श्लो. १३६-१४२ तुला-पुष्पमालायां ।१०३। तमस्य श्लोकस्य वृत्तौ श्लो. ६६ तः ७२ ।

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502