Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 479
________________ ४५० श्रीअजितप्रभुचरितम् सर्गः- ७ स्वेनाऽनुभूतं विप्रोऽसौ, वृत्तं मनसिकृत्य तत् । पृच्छन्नस्माभिः सम्यक्त्वमहिमोक्त्या व्यबोध्यत ॥८०॥ अथ ये शुद्धभट्टेन, समं तत्राऽऽगता द्विजाः । तान् प्रबोधयितुं तीर्थनाथो भूयोऽभ्यधादिति ॥८१॥ यथा जलानां जलधिविन्ध्याद्रिर्दन्तिनां यथा । शस्यानां च यथा भूमिस्ताराणां वा यथा नभः ॥८२।। स्वर्यथा कल्पवृक्षाणां, रत्नानां रोहणो यथा । सम्यक्त्वं सर्वगुणानां, तथाऽऽधारोऽभिधीयते ॥८३।। युग्मम् ॥ इन्दिरा-रूप-सौभाग्यप्रमुखं सकलं भवे । सुलभं दुर्लभं त्वेकं, सम्यक्त्वं मङ्गलाकरः ॥८४॥ सम्यग्दृष्टिव्रजेन्नूनं, वैमानिकसुपर्वसु । चेन्नो विगतसम्यक्त्वो, बद्धायुर्वा पुरा न हि ॥८५।। सम्यक्त्वे स्थिरचित्तानां, देहिनां सत्त्वशालिनाम् । शम्यन्ते विपदस्तीव्रा, इहापि त्रिदशोत्तमैः ॥८६॥ शृण्वन्त्वमरदत्तस्य, पत्न्याः सद्दर्शनस्थितेः । नाम्ना धाम्ना च विमलयशसोऽत्र निर्देर्शनम् ॥८७॥ सुराष्ट्रादेशमध्येऽस्ति, पुरी द्वारवती वरा । श्रेष्ठी पद्माभिधस्तत्राऽमरद[त्त]स्तु तत्सुतः ॥८८॥ मूर्त्या मदनसङ्काशश्चातुर्याच्चतुराननः । सज्जनं स्वजनांश्चापि, लम्भयामास विस्मयम् ॥८९।। १. दृष्टान्तः । २. आसि सुरट्ठाजणवयमज्झगया, कणयरयणपडिपुन्ना । रयणवई नाम पुरी, भारहवासम्मि विक्खाया ॥ इति पुष्पमालायां ॥१०३॥ श्लोकस्य वृत्तौ अमरदत्तभार्यादृष्टान्ते श्लो. ॥१॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502