Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 474
________________ दृढसम्यक्त्वे सुलक्षणा - शुद्धभट्टयोः कथा हिंसादिकलुषो मिथ्यादृष्टिभिर्दर्शितस्तु यः । स धर्मः सरलः पन्था, निरयङ्गङ्गामुकः ॥ ३० ॥ देवं गुरुं तथा धर्ममेवं सकृत् परीक्ष्य यः । सम्यक् स्वीकुरुते तस्य, सम्यक्त्वमभिधीयते ॥३१॥ यस्त्वदेवे देवबुद्धिमगुरौ गुरुतामतिम् । अधर्मे धर्मबुद्धि च दध्यान् मिथ्यात्वमस्य वै ॥ ३२ ॥ मिथ्यात्वमूढमतयोऽनन्तसंसारमङ्गिनः । भ्रमुर्भ्राम्यन्ति सततं भ्रमिष्यन्ति च दुःखिनः ||३३|| , अन्तर्मुहूर्त्तमात्रं तु, स्पृष्ट्वा सम्यक्त्वमुज्ज्वलम् । अपार्द्धपुद्गलावर्त्तान्तरे सिध्यन्ति निश्चितम् ||३४|| शङ्का काङ्क्षा विचिकित्सा, प्रशंसा परलिङ्गिनाम् । तत्संस्तवश्च पञ्चैते, तस्य मालिन्यहेतवः ||३५|| शम-संवेगौ निर्वेदोऽनुकम्पाऽऽस्तिकताऽपि च । सम्यक्त्वस्यैतदाख्यातं, बुधैर्लक्षणपञ्चकम् ||३६|| जिनप्रवचने स्थैर्य, कौशलं च प्रभावना । भक्तिश्च तीर्थसेवा च, सम्यक्त्वस्य गुणा अमी ||३७|| , एवं साध्वीगिरं नित्यं शृण्वाना सा सुलक्षणा । अभूत् सम्यक्त्वसलिलधौतमिथ्यात्वकर्दमा ||३८|| जीवाजीवादितत्त्वेषु, निष्णतां ग्राहिता ततः । सा देशविरतिं साध्व्या, विध्वस्ताऽखिलदुर्मतिः ||३९|| १. नरकनगरगामुकः । ४४५

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502