Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 472
________________ ४४३ दृढसम्यक्त्वे सुलक्षणा-शुद्धभट्टयोः कथा प्रभो ! विप्रेण किं पृष्टमादिष्टं प्रभुणा च किम् ? । इति ज्ञापय नः स्पष्टमथोचे तीर्थनायकः ॥९॥ 'पुर्या अनतिदूरेऽस्याः, शालिग्रामाभिधो महान् । अग्रहारोऽस्ति तत्राऽग्रजन्मा दामोदरोऽवसत् ॥१०॥ तस्य सोमाकुक्षिजन्मा, शुद्धभट्टाभिधः सुतः । अभूद्बुद्धिपराभूतपुरुहूतगुरुः कृती ॥११॥ अथैष सिद्धभट्टस्य, सावित्रीकुक्षिकां सुताम् । उदुवाहाऽभिधानेन, प्रकृत्यापि सुलक्षणाम् ॥१२॥ तारुण्यपुण्यसर्वाङ्गावथ तौ प्रेमसंहतौ । भुजाते स्म स्वविभवोचितान् भोगान् यदृच्छया ॥१३।। अथोभावपि तौ मातापितॄनाशात् परां शुचम् । अन्वभूतांतरां नैकावस्थं हि सकलं जनुः ॥१४॥ क्षीणाऽथ पैतृकी लक्ष्मीः, शुद्धभट्टस्य दैवतः । दारिद्रमाययौ सर्वपराभवनिबन्धनम् ॥१५॥ नाऽपूरि स्वोदरमपि, दुर्दैवोदयतोऽसकौ । पटच्चरं पर्यधाच्च, पटुपुण्यविवर्जितः ॥१६॥ वरं मृगैः समं वासः, कान्तारान्तः शरीरिणाम् । न पुनर्धनहीनानां, नगरान्तः स्वबन्धुभिः ॥१७॥ इति चित्ते विमृश्योऽयमनापृच्छ्य प्रियामपि । निशीथे निर्ययौ स्वीयनगराद् गुरुदुःखभाक् ॥१८॥ पत्युर्देशान्तरगति, द्वितीयेऽह्नि सुलक्षणा । ज्ञात्वा निर्लक्षणम्मन्या, मनस्येवं व्यचिन्तयत् ॥१९॥

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502