Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४४४
श्रीअजितप्रभुचरितम् सर्गः- ७
मूर्धन्या गतभाग्यानामहमेव यदासदम् । नाशं पित्रोर्धनस्यापि, विरहं प्रेयसोऽपि च ॥२०॥ एवं खेदपरा कालं, कियन्तमपि कृच्छ्रतः । यावन्निनाय सा तावद्विमलाख्या प्रवर्तिनी ॥२१॥ साध्वीमधुकरीसेव्यपादपद्मा तपःखनिः । तपात्यये गृहं तस्या, आगाद्वसतिकाम्यया ॥२२॥ युग्मम् ॥ सुलक्षणाऽपि वसतिं, तस्यै दत्ते स्म मोदतः । प्रत्यहं च शृणोति स्म, धर्ममर्म तदाननात् ॥२३।। विमलाऽपि गणिन्येनां, विचार्य ऋजुचेतसम् । क्रमाद्देवादितत्त्वानि, शशासेति प्रशस्यधीः ॥२४॥ रागादिदोषरहितो, विमलज्ञानभासुरः । सुरा-ऽसुरायॊ हितवाग, देवः सेव्यः शिवप्रदः ॥२५॥ ये तु स्त्रीसङ्गतः शस्त्रधारणाच्चात्मनि स्फुटम् । राग-द्वेषौ सूचयन्ति, कथं ते सिद्धिदाः सुराः ? ॥२६।। ज्ञानक्रियाश्रयास्त्यक्तकषायविषयोदयाः । निरीहा निरहङ्कारा, गुरवो भवतारकाः ॥२७॥ ये सदाराः सदारम्भपरा दम्भमयक्रियाः । भवाम्भोधावयस्पात्रदेश्यास्ते गुरवो ध्रुवम् ॥२८॥ कर्ममर्मापहो धर्मः, श्रीसर्वज्ञप्रकाशितः । हिंसादिदोषनिर्मुक्तो, न मोक्तव्यः शुभार्थिभिः ॥२९॥ १. 'गणिनी विपुला नाम' इति त्रिषष्टि. २।३।८७२।

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502