Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 471
________________ सप्तमः सर्गः अन्येधुर्भगवान् विश्वं, मोहशत्रोरुपद्रवात् । अवन्नवाप कौशाम्बी, कृपारसमहाम्बुधिः ॥१॥ देवैः समवसरणे, क्षणात् क्लृप्ते स्थितः प्रभुः । सुरासुरनृनाथानां, पुरतो देशनां व्यधात् ॥२॥ इतश्चैको द्विजस्तत्राऽऽगत्य वल्लभया सह । प्रणम्याऽवसरेऽपृच्छत्, कथं नु भगवन्नदः ? ॥३॥ प्रभुराख्यत 'भो भद्र !, महिमा सकलोऽप्ययम् । सम्यक्त्वस्यैव शुद्धस्य, कल्पद्रुमसमस्थितेः ॥४॥ सम्यक्त्वादर्थसिद्धिः स्यादनर्थस्यापि वारणम् । किं वा बहूक्त्या ? सम्यक्त्वात्, प्राप्तिः स्वर्गापवर्गयोः ॥५॥ भो विप्र ! विघ्नविलयादियतोऽप्यसि विस्मितः । सुपर्णोत्थे सर्पनाशे, कोऽपि चित्रीयते नु किम् ?' ॥६॥ विप्रः प्रणम्य विनयात्, क्लृप्ताञ्जलिरवोचत । 'भगवन् ! सत्यमेवेदं, नान्यथा सर्वविद्वचः' ॥७॥ एवमुक्त्वा स्थिते जोषं, विप्रे तत्तत्त्ववेद्यपि । जनं ज्ञापयितुं नाथ[म]पृच्छद् गणभृद्वरः ॥८॥

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502