SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः अन्येधुर्भगवान् विश्वं, मोहशत्रोरुपद्रवात् । अवन्नवाप कौशाम्बी, कृपारसमहाम्बुधिः ॥१॥ देवैः समवसरणे, क्षणात् क्लृप्ते स्थितः प्रभुः । सुरासुरनृनाथानां, पुरतो देशनां व्यधात् ॥२॥ इतश्चैको द्विजस्तत्राऽऽगत्य वल्लभया सह । प्रणम्याऽवसरेऽपृच्छत्, कथं नु भगवन्नदः ? ॥३॥ प्रभुराख्यत 'भो भद्र !, महिमा सकलोऽप्ययम् । सम्यक्त्वस्यैव शुद्धस्य, कल्पद्रुमसमस्थितेः ॥४॥ सम्यक्त्वादर्थसिद्धिः स्यादनर्थस्यापि वारणम् । किं वा बहूक्त्या ? सम्यक्त्वात्, प्राप्तिः स्वर्गापवर्गयोः ॥५॥ भो विप्र ! विघ्नविलयादियतोऽप्यसि विस्मितः । सुपर्णोत्थे सर्पनाशे, कोऽपि चित्रीयते नु किम् ?' ॥६॥ विप्रः प्रणम्य विनयात्, क्लृप्ताञ्जलिरवोचत । 'भगवन् ! सत्यमेवेदं, नान्यथा सर्वविद्वचः' ॥७॥ एवमुक्त्वा स्थिते जोषं, विप्रे तत्तत्त्ववेद्यपि । जनं ज्ञापयितुं नाथ[म]पृच्छद् गणभृद्वरः ॥८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy