________________
४४३
दृढसम्यक्त्वे सुलक्षणा-शुद्धभट्टयोः कथा प्रभो ! विप्रेण किं पृष्टमादिष्टं प्रभुणा च किम् ? । इति ज्ञापय नः स्पष्टमथोचे तीर्थनायकः ॥९॥ 'पुर्या अनतिदूरेऽस्याः, शालिग्रामाभिधो महान् । अग्रहारोऽस्ति तत्राऽग्रजन्मा दामोदरोऽवसत् ॥१०॥ तस्य सोमाकुक्षिजन्मा, शुद्धभट्टाभिधः सुतः । अभूद्बुद्धिपराभूतपुरुहूतगुरुः कृती ॥११॥ अथैष सिद्धभट्टस्य, सावित्रीकुक्षिकां सुताम् । उदुवाहाऽभिधानेन, प्रकृत्यापि सुलक्षणाम् ॥१२॥ तारुण्यपुण्यसर्वाङ्गावथ तौ प्रेमसंहतौ । भुजाते स्म स्वविभवोचितान् भोगान् यदृच्छया ॥१३।। अथोभावपि तौ मातापितॄनाशात् परां शुचम् । अन्वभूतांतरां नैकावस्थं हि सकलं जनुः ॥१४॥ क्षीणाऽथ पैतृकी लक्ष्मीः, शुद्धभट्टस्य दैवतः । दारिद्रमाययौ सर्वपराभवनिबन्धनम् ॥१५॥ नाऽपूरि स्वोदरमपि, दुर्दैवोदयतोऽसकौ । पटच्चरं पर्यधाच्च, पटुपुण्यविवर्जितः ॥१६॥ वरं मृगैः समं वासः, कान्तारान्तः शरीरिणाम् । न पुनर्धनहीनानां, नगरान्तः स्वबन्धुभिः ॥१७॥ इति चित्ते विमृश्योऽयमनापृच्छ्य प्रियामपि । निशीथे निर्ययौ स्वीयनगराद् गुरुदुःखभाक् ॥१८॥ पत्युर्देशान्तरगति, द्वितीयेऽह्नि सुलक्षणा । ज्ञात्वा निर्लक्षणम्मन्या, मनस्येवं व्यचिन्तयत् ॥१९॥