________________
दृढसम्यक्त्वे सुलक्षणा - शुद्धभट्टयोः कथा
हिंसादिकलुषो मिथ्यादृष्टिभिर्दर्शितस्तु यः । स धर्मः सरलः पन्था, निरयङ्गङ्गामुकः ॥ ३० ॥
देवं गुरुं तथा धर्ममेवं सकृत् परीक्ष्य यः । सम्यक् स्वीकुरुते तस्य, सम्यक्त्वमभिधीयते ॥३१॥ यस्त्वदेवे देवबुद्धिमगुरौ गुरुतामतिम् । अधर्मे धर्मबुद्धि च दध्यान् मिथ्यात्वमस्य वै ॥ ३२ ॥
मिथ्यात्वमूढमतयोऽनन्तसंसारमङ्गिनः ।
भ्रमुर्भ्राम्यन्ति सततं भ्रमिष्यन्ति च दुःखिनः ||३३||
,
अन्तर्मुहूर्त्तमात्रं तु, स्पृष्ट्वा सम्यक्त्वमुज्ज्वलम् । अपार्द्धपुद्गलावर्त्तान्तरे सिध्यन्ति निश्चितम् ||३४|| शङ्का काङ्क्षा विचिकित्सा, प्रशंसा परलिङ्गिनाम् । तत्संस्तवश्च पञ्चैते, तस्य मालिन्यहेतवः ||३५|| शम-संवेगौ निर्वेदोऽनुकम्पाऽऽस्तिकताऽपि च । सम्यक्त्वस्यैतदाख्यातं, बुधैर्लक्षणपञ्चकम् ||३६|| जिनप्रवचने स्थैर्य, कौशलं च प्रभावना । भक्तिश्च तीर्थसेवा च, सम्यक्त्वस्य गुणा अमी ||३७||
,
एवं साध्वीगिरं नित्यं शृण्वाना सा सुलक्षणा । अभूत् सम्यक्त्वसलिलधौतमिथ्यात्वकर्दमा ||३८|| जीवाजीवादितत्त्वेषु, निष्णतां ग्राहिता ततः । सा देशविरतिं साध्व्या, विध्वस्ताऽखिलदुर्मतिः ||३९||
१. नरकनगरगामुकः ।
४४५