Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 467
________________ ४३८ श्रीअजितप्रभुचरितम् सर्गः-६ तदा च तत्र नगरे, नृपे निष्पुत्रके मृते । मन्त्राधिवासितो हस्ती, भ्रम्यमाणोऽस्ति मन्त्रिभिः ॥७८८।। तेनाऽऽगत्य बहिः पुर्याः, सुखसुप्तः स सत्वरम् । अभिषिक्तोऽभवत् प्राज्यसाम्राज्याधिपतिः कृती ॥७८९।। सा तु दुष्टाशया देवी, भुक्त्वा द्रव्यं करस्थितम् । वहन्ती शिरसा पगुं, मधुरध्वनिगायिनम् ॥७९०।। भिक्षां ययाचे भ्राम्यन्ती, प्रतिगेहं जनैः पुनः । पृष्टाऽभ्यधत्त ‘भर्ताऽयं, दत्तो गुरुजनेन मे ॥७९१॥ युग्मम् ॥ पतिव्रता परिणीतं, तदमुं पालयाम्यहम् । स्त्रीणां विशुद्धशीलानां, पतिर्यदेवतोपमः' ॥७९२।। एवं परिभ्रमन्ती सा, क्र[मा]द् ग्राम-पुरादिषु । ययौ तन्नगरं राज्ञा, पालितं जितशत्रुणा ॥७९३।। राजा निरीक्ष्य वेगेनाऽऽह्वाय्य वातायनस्थितः । भूमिस्थितां तां पप्रच्छ, काऽसि ? कः पङ्गुरेष च ॥७९४।। पितृभ्यां ब्राह्मणैर्देवैर्दत्तः पङ्गुः पतिर्मम । पतिव्रताऽहं तदमुं, भजामीत्यभ्यधत्त सा ॥७९५।। 'बाह्वो रुधिरमापीतमूरुमांसं च भक्षितम् । गङ्गायां प्लावितो भर्ता, साधु साधु पतिव्रते !' ॥७९६।। एवमुक्त्वा नराधीशः, पुरान्निस्य तां रयात् । प्रजाः पाति स्म विस्मेरपुण्योदयविराजितः ॥७९७।।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502