________________
४३८
श्रीअजितप्रभुचरितम् सर्गः-६ तदा च तत्र नगरे, नृपे निष्पुत्रके मृते । मन्त्राधिवासितो हस्ती, भ्रम्यमाणोऽस्ति मन्त्रिभिः ॥७८८।। तेनाऽऽगत्य बहिः पुर्याः, सुखसुप्तः स सत्वरम् । अभिषिक्तोऽभवत् प्राज्यसाम्राज्याधिपतिः कृती ॥७८९।। सा तु दुष्टाशया देवी, भुक्त्वा द्रव्यं करस्थितम् । वहन्ती शिरसा पगुं, मधुरध्वनिगायिनम् ॥७९०।। भिक्षां ययाचे भ्राम्यन्ती, प्रतिगेहं जनैः पुनः । पृष्टाऽभ्यधत्त ‘भर्ताऽयं, दत्तो गुरुजनेन मे ॥७९१॥ युग्मम् ॥ पतिव्रता परिणीतं, तदमुं पालयाम्यहम् । स्त्रीणां विशुद्धशीलानां, पतिर्यदेवतोपमः' ॥७९२।। एवं परिभ्रमन्ती सा, क्र[मा]द् ग्राम-पुरादिषु । ययौ तन्नगरं राज्ञा, पालितं जितशत्रुणा ॥७९३।। राजा निरीक्ष्य वेगेनाऽऽह्वाय्य वातायनस्थितः । भूमिस्थितां तां पप्रच्छ, काऽसि ? कः पङ्गुरेष च ॥७९४।। पितृभ्यां ब्राह्मणैर्देवैर्दत्तः पङ्गुः पतिर्मम । पतिव्रताऽहं तदमुं, भजामीत्यभ्यधत्त सा ॥७९५।। 'बाह्वो रुधिरमापीतमूरुमांसं च भक्षितम् । गङ्गायां प्लावितो भर्ता, साधु साधु पतिव्रते !' ॥७९६।। एवमुक्त्वा नराधीशः, पुरान्निस्य तां रयात् । प्रजाः पाति स्म विस्मेरपुण्योदयविराजितः ॥७९७।।