________________
४३७
स्पर्शनेन्द्रियासक्तौ सुकुमालिकानृपकथा अभाणीदन्यदा देवी, नरनाथं 'कथं त्वहम् । पूर्वं कञ्चुकिसध्रीचीजनैः परिवृताऽभितः ॥७७८॥ वेणु-वीणादिभिनित्यं, कुतूहलितमानसा । भूत्वा साम्प्रतमेकाकिन्येव तिष्ठामि वेश्मनि ॥७७९॥ [युग्मम्] तत् कञ्चन सहायं मे, विधेहीति' प्रियागिरा । राट् पङ्गुमविकारोऽयमिति ध्यात्वाऽधरद् गृहे ॥७८०॥ न त्वेवं प्राञ्जलमना, बुबुधे धरणीधवः । यल्लोलाक्ष्यो व्रतत्यश्च, प्रायेण स्युः सदृग्गुणाः ॥७८१॥ सगुणं निर्गुणं वापि, पुमांसं सविधस्थितम् । नार्यो भजन्ति माकन्दं, निम्बं वा वल्लयो यथा ॥७८२॥ पगुः शृङ्गारगर्भाभिः, कथाभिर्गीतिभिश्च ताम् । देवीमावर्ण्य कालेन, स्वल्पेन स्ववशां व्यधात् ।।७८३।। रिरंसुः स्वेच्छया तेन, जिघांसामास सा पतिम् । स्मरातुरा हि वामाक्ष्यो, न हि तद्यन्न कुर्वते ॥७८४॥ जगाम मेदिनीनाथोऽन्यदोद्यानिकया बहिः । रम्ये तटे च गङ्गाया, न्यषदत् सरलाशयः ॥७८५॥ पापिन्याऽथ तया प्रेर्य, प्रक्षिप्तः सलिलान्तरे । तरन् क्वापि पुरे लग्नः, श्रान्तोऽशेत तरोस्तले ॥७८६।। तरोश्छाया च तस्योद्धर्वं, स्थिता नैव परावृतत् । किमद्भुतमिदं स्फारभागधेय[वि]राजिनाम् ॥७८७।।