SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४३६ श्रीअजितप्रभुचरितम् सर्गः-६ तस्याः कोमलदेहस्य, स्पर्शे सक्तस्तथा नृपः । कदाचिद्देशराज्यादिचिन्तां नो चकृवान् यथा ॥७६८॥ मन्त्रिभिर्बहुधा दत्तामपि शिक्षाममंस्त न । किं सृणिं मन्यते क्वापि, मातङ्गो मददुर्द्धरः ? ॥७६९॥ ततोऽमात्यैः स पल्यङ्के, सुकुमालिकया समम् । सुप्तो निशि वनेऽमोचि, राज्ये [न्य]स्तश्च तत्सुतः ॥७७०॥ प्रबुद्धोऽथ समं देव्या, नृपोऽचालीत् पुरः पथि । देवी श्रान्ता च तृषया, प्रकामं समपीड्यत ॥७७१।। अशक्तां पुरतो गन्तुं, विन्यस्यैकत्र तामथ । भ्राम्यन्नन्वेषयामास, सर्वत्राऽम्बु नराधिपः ॥७७२।। तदाऽलब्ध्वाऽथ [पानीयं], रुधिरं निजबाहुतः । आकृष्य क्षिप्रमझेप्सीत्, पुटिकायामुपायवित् ॥७७३॥ मध्ये च मूलिकां क्षिप्त्वा, [कृत्वा] निर्मलमम्बु तत् । पाययामास तां राजा, कटरे प्रेमवल्गितम् ॥७७४॥ देव्यामतिक्षुधा यामाहारं कञ्चनाऽपरम् । अप्राप्य स्वोरुमांसानि, च्छित्त्वाऽपक्त दवानले ॥७७५।। संरोहणीमूलिकया, रोहयित्वा व्रणोच्चयम् । देव्यै शशादिपललच्छद्मनाऽदत्त तान्यथ ॥७७६॥ ततश्चाऽगात् सदेवीको, गङ्गातीरे पुरे क्वचित् । वणिज्यां च व्यधाद्देवीदेहाभरणरिक्थतः ॥७७७।। १. आश्चर्यद्योतकोऽयमव्ययः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy