________________
सगरचक्रिणः प्रव्रज्या
४३९
जितशत्रुरिति प्राप, व्यसनं स्पर्शनेन्द्रियात् । देवी पुनर्विशेषेण, तन्निगृह्णीत तज्जनाः ! ॥७९८॥ इति स्पर्शनेन्द्रिये सुकुमालिकानृपकथानकम् ॥ श्री ॥ [ ग्रन्थाग्रम् ] ३४ ॥ प्रदर्श्य तुच्छकं सौख्यमेवं पञ्चभिरिन्द्रियैः । अनन्तदुःखे नरके, प्रक्षिप्यन्ते शरीरिणः ॥७९९॥ पञ्चापि दुर्जयान्यक्षाण्यक्षामतपसस्तु ये । विजयन्ते श्रयन्ते ते, सम्पदं [मोक्षसौख्यदाम्] ॥८००॥
__ [इति ] इन्द्रियपञ्चककथानकम् ॥ ग्रन्थाग्रम् ३८४ अ. १२ ॥ श्रुत्वेति देशनां भर्तुः, सगरश्चक्रवर्त्यथ । प्रणत्य प्रोचिवान् विश्वस्वामिनं रचिताञ्जलिः ॥८०१।। 'स्वामिन् ! मयेन्द्रियसुखलोलुपेनाऽवशात्मना । हहा मनुष्यजन्मायुरिदमक्षपि निष्फलम् ॥८०२॥ साम्प्रतं तु प्रसद्याऽऽशु, दीक्षारथ्यां निवेश्य माम् । भीतमिन्द्रियशत्रुभ्यो, नय निर्वाणपत्तनम्' ॥८०३॥ ततो भगवता दीक्षाग्रहणेऽनुमतो भृशम् । भगीरथाभ्यर्थनयाऽलञ्चक्रे सगरः पुरीम् ॥८०४॥ भक्त्या भगीरथेनाऽथ, कृतदीक्षाभिषेचनः । धृतदिव्याम्बरोऽनालङ्कारालङ्कृताङ्गकः ॥८०५॥ आरूढः शिबिकां दिव्यां, दानानन्दितमार्गणः । अन्वीयमानमार्गश्च, सामन्ता[दि]भिरुत्सुकैः ॥८०६॥