Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 429
________________ ४०० श्रीअजितप्रभुचरितम् सर्गः-६ मागधैः पठितोदारविचित्रचरितः कृती । प्रीणितार्थिजनव्यूहः, साकेतपुरमासदत् ॥४०४|| पञ्चभिः कुलकम् ॥ शुचं विस्मारयन् पुत्रदुर्मृत्युप्रभवां रयात् । पितामहस्य चरणावयं विनयतोऽनमत् ॥४०५॥ भैरतेशोऽपि हर्षाश्रुपूरपूर्णविलोचनः । तस्य पृष्ठे निजं पाणिं, न्यस्यति स्म ससम्भ्रमम् ॥४०६।। बुद्ध्वा च राज्यधुर्यं तं, मन्त्रि-सामन्तसम्मतः । अनिच्छन्तमपि प्रौढाग्रहाद्राज्येऽभ्यषिञ्चत ॥४०७॥ स्वयं पुनर्भवदवं, दुःखकीलासमाकुलम् । दारुणं तं हृदा ध्यायन्, विमुखो विषयोच्चयात् ॥४०८॥ अनन्तसौख्यसदनं, यियासुरपुनर्भव[म्] । चारित्रप्राप्तये बद्धस्पृहोऽतिष्ठन्महामतिः ॥४०९।। युग्मम् || इतश्चाऽप्रतिबद्धेन, विहारेण चरन् भुवि । सहस्राम्रवणोद्यानेऽजितेशः समवासरत् ॥४१०॥ अथ सार्द्धा हिरण्यस्य, कोटीादश चक्रभृत् । स्वाम्यागमनशंसिभ्यः, प्रददौ पारितोषिके ॥४११।। साकं भगीरथेनाऽपि, महा निर्गतः पुरात् । गत्वा समवसरणं, नत्वा स्वामिनमस्तवीत् ॥४१२॥ 'जय कल्पद्रुम इव, ज[ग]दङ्गिषु कामद ! । भूर्भुवःस्वविभुस्तुत्य !, द्वैतीयीकजिनेश्वर ! ॥४१३॥ १. सगरः । २. अग्निज्वाला ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502