Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 437
________________ ४०८ श्रीअजितप्रभुचरितम् सर्गः-६ गम्भीरं दक्षिणावर्त्तकलितं नाभिमण्डलम् । प्रशस्तमप्रशस्तं तु, वामावर्तं तथोन्नतम् ॥४८७।। विशालं मांसलं वक्षः, शस्तं लोमशमुन्नतम् । विषमं श्रीविनाशाय, शस्त्रपाताच्च मृत्यवे ॥४८८॥ विक्रमी महिषग्रीवः, कम्बुग्रीवो नरेश्वरः । अतिदीर्घ-कृशग्रीवो, दुःखितो बहुभक्षकः ॥४८९।। मांसलौ विपुलावंसौ, श्रिये दुःखप्रदौ कृशौ । शस्ते स्वेदोज्झिते पीने, कक्षे क(?)ष्ठमरोमशम् ॥४९०।। आजानुलम्बितौ पीनावल्परोमान्वितौ भुजौ । राज्याय किङ्करत्वाय, तौ हस्वौ विषमौ तथा ॥४९१।। नवाम्रपल्लवाताम्रतलावस्वेदनौ तथा । अकर्मकर्कशावुभौ, पाणी स्यातां नृपश्रिये ॥४९२।। कोमलाः सरला दीर्घा, अङ्गुल्यश्चिरजीविनाम् । श्लक्ष्णा मेधाविनां स्थूला, दासकर्मकृतां पुनः ॥४९३।। शस्ता अङ्गुलिमूर्द्धानो, दक्षिणावर्त्तसंयुताः । अङ्गुष्ठमूलमध्यस्था, यवाः पुत्रयशःप्रदाः ॥४९४।। मणिबन्धे क्रमादेका, द्वे तिस्रो यवपङ्क्तयः । दध्युतॄणां धनाढ्यत्वं, सचिवत्वं नरेशताम् ।।४९५॥ धनी पाणेस्तले शोणे, कल्माषे धनवर्जितः । पीते त्वगम्यनारीगो, नीले भवति मद्यपः ॥४९६।। रेखाः पाणितले शस्ता, गम्भीरा मधुपिङ्गलाः । सूक्ष्माः स्निग्धा गतच्छेदा, अव्यावृत्तास्तथाऽऽयताः ॥४९७।।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502