________________
४०८
श्रीअजितप्रभुचरितम् सर्गः-६ गम्भीरं दक्षिणावर्त्तकलितं नाभिमण्डलम् । प्रशस्तमप्रशस्तं तु, वामावर्तं तथोन्नतम् ॥४८७।। विशालं मांसलं वक्षः, शस्तं लोमशमुन्नतम् । विषमं श्रीविनाशाय, शस्त्रपाताच्च मृत्यवे ॥४८८॥ विक्रमी महिषग्रीवः, कम्बुग्रीवो नरेश्वरः । अतिदीर्घ-कृशग्रीवो, दुःखितो बहुभक्षकः ॥४८९।। मांसलौ विपुलावंसौ, श्रिये दुःखप्रदौ कृशौ । शस्ते स्वेदोज्झिते पीने, कक्षे क(?)ष्ठमरोमशम् ॥४९०।। आजानुलम्बितौ पीनावल्परोमान्वितौ भुजौ । राज्याय किङ्करत्वाय, तौ हस्वौ विषमौ तथा ॥४९१।। नवाम्रपल्लवाताम्रतलावस्वेदनौ तथा । अकर्मकर्कशावुभौ, पाणी स्यातां नृपश्रिये ॥४९२।। कोमलाः सरला दीर्घा, अङ्गुल्यश्चिरजीविनाम् । श्लक्ष्णा मेधाविनां स्थूला, दासकर्मकृतां पुनः ॥४९३।। शस्ता अङ्गुलिमूर्द्धानो, दक्षिणावर्त्तसंयुताः । अङ्गुष्ठमूलमध्यस्था, यवाः पुत्रयशःप्रदाः ॥४९४।। मणिबन्धे क्रमादेका, द्वे तिस्रो यवपङ्क्तयः । दध्युतॄणां धनाढ्यत्वं, सचिवत्वं नरेशताम् ।।४९५॥ धनी पाणेस्तले शोणे, कल्माषे धनवर्जितः । पीते त्वगम्यनारीगो, नीले भवति मद्यपः ॥४९६।। रेखाः पाणितले शस्ता, गम्भीरा मधुपिङ्गलाः । सूक्ष्माः स्निग्धा गतच्छेदा, अव्यावृत्तास्तथाऽऽयताः ॥४९७।।