________________
४०७
सामुद्रिकशास्त्रम् नखा अङ्गुलिपाणि, त्वग्दन्ताश्चिकुरास्तथा । इमानि पञ्च सूक्ष्माणि, लक्ष्याणि शुभसन्ततः ॥४७६।। नेत्रान्त-नख-ताल्वोष्ठ-जिह्व पाणी पदौ तथा । एतानि सप्त रक्तानि, रञ्जयन्ति श्रियं नृषु ॥४७७।। नृणां स्याच्छ्रेष्ठया गत्या, यानं भोगाः पुनस्त्वचा । मांसेन सुखमस्थ्नाऽर्थाः, स्वरेणाऽऽज्ञा दृशा स्त्रियः ॥४७८।। पुंसां पादतलं रक्तं, स्निग्धं स्वेदविवर्जितम् । अवक्रं पद्मसोमालं, वज्राद्यत प्रशस्यते ॥४७९।। खर-कोल-सृगालास्तु, यस्य पादतले स्थिताः । स दुःखितो दरिद्रः स्यात्, सर्वकालं नराधमः ॥४८०॥ उत्तुङ्गाः पृथुला रक्ताः, स्निग्धा दर्पणसन्निभाः । नखाः शस्ताः कुशीलत्वव्यञ्जका रूक्ष-पुष्पिताः ॥४८१॥ शस्यौ कूर्मोन्नतावुष्णौ, गूढगुल्फो समौ पदौ । निन्द्यौ सूर्पाकृती वक्रौ, सशिरौ विरलाङ्गुली ॥४८२।। जङ्के वृत्ते प्रविरलश्लक्ष्णरोमसमन्विते । स्यातां श्रिये विदेशायाऽतिदीर्घस्थूलिके पुनः ॥४८३॥ जानुनी मांसले वृत्ते, ऊरू करिकरोपमौ । धन्यानां मणिना लिङ्गं, तूनतेन युतं लघु ॥४८४॥ निःस्वः प्रलम्बलिङ्गः स्यात्, स्थूललिङ्गस्तु निष्प्रजः । मूत्रं प्रदक्षिणावर्त, सशब्दं शस्यते पुनः ॥४८५।। सिंहस्य(स्येव) कटिः शस्या, विस्तृता मांसलाऽपि च । निन्द्या तु सङ्कटा ह्रस्वा, मध्यं वज्रोपमं शुभम् ॥४८६॥