________________
४०६
श्रीअजितप्रभुचरितम् सर्गः-६
नगरं काञ्चनपुरं, कलिङ्गेष्वस्ति सत्तमम् । श्रेष्ठी श्रीनिलयो नाम, तत्राऽभूत् सान्वयाह्वयः ॥४६५।। तस्य भार्या यशोभद्रा, समभूत् स्त्रीशिरोमणिः । तयोर्मनोरथशतैरजनिष्ट क्रमात् सुतः ॥४६६।। रतिसेनाभिधः सैष, रूपादिगुणशोभितः । वर्द्धयन् प्रमदं पित्रोरवर्द्धत दिने दिने ॥४६७॥ महाद्भुतं तस्य रूपं, दृष्ट्वा तातोऽतिहर्षभाक् । तदेहलक्षणस्तोमं, बुभुत्सुः स्वीयवेश्मनि ॥४६८।। आहूय लक्षणशास्त्रपाठकान् मतिमद्वरान् । सत्कृत्याऽपृच्छदेषोऽङ्गजन्मा किंलक्षणो मम ? ॥४६९।। [युग्मम्] ते वीक्ष्याऽथाऽवदन् ‘श्रेष्ठिन् !, शृणु स्त्री-पुंसलक्षणम् । उक्तं शास्त्रेषु विस्तीर्णं, सक्षिप्तं] तु निवेद्यते ॥४७०॥ त्रिगम्भीरस्त्रिविपुलश्च[तु]ईस्वः षडुन्नतः । पञ्चदीर्घः पञ्चसूक्ष्मः, सप्तरक्तो नरो वरः ॥४७१।। नाभिः स्वरः सत्त्वमिति, गम्भीरं शस्यते त्रयम् । त्रयं तु विपुलं वक्षो, ललाटं वदनं तथा ॥४७२।। कण्ठः पृष्ठं तथा लिङ्गं, जङ्घा चेति चतुष्टयम् । हुस्वं हासाय विपदां, विनिर्दिष्टं विशारदैः ॥४७३।। वक्षो नासा नखाः कण्ठः, कक्षा च वदनं तथा । एतैरभ्युन्नतैर्मा , गुर्वी प्राप्नुयुरुन्नतिम् ॥४७४।। मध्यमक्ष्णोः स्तनयोश्च, बाहू नासा हनुस्तथा । इति दीर्घाणि पञ्च स्युर्दीर्घश्रीसमवाप्तये ॥४७५।।