________________
४०५
श्रवणेन्द्रियासक्तौ सुभद्राकथा यावत् प्राणेश्वरीसङ्गोल्लसदायल्लको निजम् । वेश्म प्रविशति प्रौढऋद्ध्या विस्माययन् जनम् ॥४५६॥
॥ चतुभिः सम्बन्धः ॥ अथ रात्रेरन्त्ययामे, स्थित्वा तस्य गृहान्तिके । मधुरध्वनिनाऽनेन, तद् गातुमुपचक्रमे ॥४५७।। यथा यथा च सा गीतं, तच्छुश्राव मनोहरम् । तथा तथाऽतीवतप्ता, प्रेयोविरहवह्निना ॥४५८॥ पूर्वं प्रेमभराद्भा, समं विलसितानि तु । स्मारं स्मारं सशल्येव, सर्वाङ्गं साऽभवन्मुहुः ॥४५९।। मृगीवद् गीततः पारवश्यं प्राप्ता स्ववल्लभम् । प्रविशन्तमिवाऽऽगारे, ज्ञात्वाऽचालीच्च सम्मुखा ॥४६०॥ हर्षोत्कर्षाचितस्वान्ता, प्रासादोद्धर्वमपि स्थितम् । स्वं भूमिष्ठं मन्यमाना, गेयोत्कृष्टरसाद् द्रुतम् ॥४६१॥ अम्बरे ददतीरणं, निष्ठुरे मेदिनीतले । पतिता मुमुचे प्राणैः, परत्राऽप्याप च व्यथाः ॥४६२॥ युग्मम् ॥ अनिजितेन श्रवणेन्द्रियेणैव गता क्षयम् । सुभद्रेति परिज्ञाय, निगृह्णीध्वं तदुद्यमात् ॥४६३॥
इति श्रवणेन्द्रिये सुभद्राकथा | श्री ॥ ग्रं. ३६ ॥ चक्षुर्लोलो वणिक्पुत्रो, यथा सेहे महापदः । तथाऽधुना वर्णयामः, शृण्वन्तु स्वहितार्थिनः ! ॥४६४।। १. ईरणम् = गतिम् ।