________________
४०४
श्रीअजितप्रभुचरितम् सर्गः-६ प्रस्तावेऽस्मिन् सार्थवाहभार्या तत्र समागता । दासिभिर्दर्शितं गान्धर्विकं तं सुप्तमैक्षत ॥४४५।। कुरूपं काकवत् कृष्णवपुषं दन्तुरं च तम् । पश्यन्ती सार्थवाही सा, सजुगुप्समभाषत ॥४४६।। 'रूपं यस्येदृशं तस्येदृशं गेयमपि ध्रुवम् । गुणा आकृतिहीनेषु, लभ्यन्ते हि कुतोऽङ्गिषु ?' ॥४४७|| इत्यादि ब्रुवती तस्य, कुरूपत्वेन खेदभाक् । मुहुर्मुहुः सा थूत्कृत्य, समवाप स्वमन्दिरम् ॥४४८॥ पुष्पशालः प्रबुद्धोऽथ, तस्याः सर्वं विचेष्टितम् । सविशेष समासन्नवर्तिभिऑपितोऽकुपत् ॥४४९।। दध्यौ च दर्शयाम्यस्या, दुर्मत्तायाः सुदारुणम् । फलं पचेलिमं क्षिप्रं, मदवज्ञामहीरुहः ॥४५०॥ न करोत्युपकर्तुर्योऽपकर्तुर्वा यथोचितम् । स मा जीवन् महीपीठे, शिलाशकलसन्निभः ॥४५१॥ एवं विचिन्त्य मनसा, तस्याः सकलमप्यसौ । स्वरूपं लोकतोऽज्ञासीदपकारैकबद्धधीः ॥४५२॥ यथा सस्नेहमापृच्छ्य, तां प्रास्थित पुरादयम् । यथा देशान्तरे भूपप्रसादं समवाप च ॥४५३।। व्यवहाराद्यथा द्रव्यमर्जयामास पुष्कलम् । यथा निवृत्तः सोत्कण्ठमुपैति च निजं गृहम् ॥४५४|| इत्यादि सार्थवाहस्य, धनदाख्यस्य विस्तरात् । चरितं सकलं गेये, तावत्तेन न्यबध्यत ॥४५५।।