SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४०३ श्रवणेन्द्रियासक्तौ सुभद्राकथा [इ]तश्च नगरे तत्र, समेतः किन्नरस्वरः । गन्धर्वः पुष्पशालाख्यो, गायन्नस्ति श्रवःसुखम् ॥४३४॥ श्रुत्वा तस्य स्वरं दास्यस्ता मृग्य इव सत्वरम् । हृतस्वान्ता ययुस्तत्र, विमुक्तस्वप्रयोजनाः ॥४३५।। तद्गीतिध्वनिमाधुर्यपरतन्त्राश्च तास्तदा । स्थित्वा तत्र चिरं गेयोपरमे स्वगृहं ययुः ॥४३६॥ सुभद्रया गाढरुषा, ततस्ता भत्सिता जगुः । 'मा कुप: स्वामिनि ! शृणु, हेतोर्यस्माद्वयं स्थिताः ॥४३७।। साम्प्रतं नगरेऽमुष्मिन्, गान्धर्वनिपुणः पुमान् । पुष्पशालाभिधः प्राप्तः, कुतश्चित् कोकिलस्वरः ॥४३८।। तद्गीतेनाऽतिमाधुर्यादाक्षिप्ताः पशवोऽपि हि । किं पुनः स्वामिनि ! नराः, स्फुटचैतन्यशालिनः ॥४३९॥ तद्गीतहतचेतस्का, गच्छन्तं समयं वयम् । प्रभूतमपि नाऽबुद्ध्यामहि देव्य इव द्यवि' ॥४४०॥ सार्थवाही ततोऽभाणीद्यद्येवं तर्हि मामपि । सख्यः ! श्रावयत क्षिप्रं, तद् गेयं सुधया समम्' ॥४४१॥ तथेति प्रतिपद्यैताः, पश्यन्त्योऽवसरं ततः । क्वचिद्देवकुले यात्रोत्सवे क्वापि प्रसर्पति ॥४४२।। मिलिते प्रचुरे लोके, गायन्तमवबुध्य तम् । सार्थवाहीं सुभद्रां द्राग, निन्युस्तत्र सकौतुकाम् ॥४४३॥ युग्मम् ॥ तदा च सुचिरं गानात्, खिन्नो गान्धर्वविद्धृशम् । पृष्ठे देवकुलस्याऽस्य, शयितोऽस्ति सुनिर्भरम् ॥४४४॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy