________________
४०२
श्रीअजितप्रभुचरितम् सर्गः-६ शब्दे कुरङ्गः शलभश्च रूपे, गन्धे द्विरेफोऽपि रसे च मीनः । स्पर्शे च गृथुद्धिरदः प्रकामं, समासदद्वै विपदं दुरन्ताम् ॥४२५।।
[उपजातिवृत्तम्] यस्तु प्रमादैकपरः समस्तान्यक्षाणि शश्वद्विषयैरशेषैः । प्रलोभयेत्तस्य भवेयुरुग्रा, यदापदस्तत्र किमद्भुतं तु ॥४२६॥
[उपजातिवृत्तम्] हता सुभद्रा श्रवणेन्द्रियेण, वणिक्सुतोऽक्ष्णा च नसा कुमारः । रसज्ञया राड् रसलोलनामा, परेण भर्ता सुकुमालिकायाः ॥४२७।।
[उपेन्द्रवज्रावृत्तम्] यथा प्रापाऽऽपदं तीव्रामजितश्रवणेन्द्रिया । सार्थवाही सुभद्राख्या, भो भव्याः ! श्रूयतां तथा ॥४२८॥ वसन्तपुरमित्यस्ति, पुरं सर्वपुरोत्तमम् । धनदाख्यः सार्थवाहस्तत्रा धनदोपमः ॥४२९।। प्रेमपात्रं स्वलावण्यतर्जितस्मरवल्लभा । सुभद्रा नाम तस्याऽऽसीद्, गृहिणी हरिणेक्षणा ॥४३०|| अन्येधुर्धनदः पत्नी, तां संस्थाप्य स्वमन्दिरे । आदाय प्रवरं भाण्डं, गतोऽन्यत्र वणिज्यया ॥४३१॥ गृहचिन्तां प्रकुर्वाणा, सार्थवाह्यथ कत्यपि । निनाय दिवसान् प्रेयोनामस्मृतिपरायणा ॥४३२।। कदाचन समुत्पन्ने, कस्मिन्नपि प्रयोजने । सुभद्रा नगरस्यान्तः, प्रजिघाय स्वकिङ्करीः ॥४३३।। १. स्पर्शनेन्द्रियेण ।