________________
४०१
श्रीअजितेशस्य पञ्चेन्द्रियदुर्विपाकसूचककथापञ्चकमयदेशना जगत्प्रभो ! सुधादेश्या, युगपत् सर्वदेहिनाम् । हरन्ती तीव्रसन्देहविषं जयति गीस्तव ॥४१४॥ ये भीष्माद् भवतो भीता, भवन्तं पर्युपासते । पदं सनातनं देवदेव ! तेषां न दूरतः ॥४१५॥ चरणौ तव ये नाथ !, शरण्यौ शरणं श्रिताः । न तानवार्यवीर्योऽपि, द्रष्टुं शक्नोति मोहराट् ॥४१६॥ भावारिभिरतिक्रूरैर्दूनमूनं शमश्रिया । त्रातस्त्रायस्व त्रायस्व, मां स्वीयक्रमसंश्रितम्' ॥४१७।। एवं स्तुत्वा यथास्थानं, निषण्णे भरताधिपे । सुधोर्मिकल्पां तीर्थेशः, प्रारेभे धर्मदेशनाम् ॥४१८।। 'भव्याः ! सत्कुल-सज्जाति-बुद्धि-श्रद्धादिसंयुतम् । नृभवं प्राप्य विरति, प्रपद्यध्वमवद्यतः ॥४१९।। अवद्यात् कुशलभ्रंशमवद्याद्वासनोदयम् । अवद्याद् दुर्गतिं मूढा, लभन्तेऽनात्मचिन्तकाः ॥४२०॥ अवद्यानि च सर्वाणि,हृषीकगणनिर्जिताः । पीतमद्या इवाऽज्ञानाद्वितन्वन्ति शरीरिणः ॥४२१॥ शब्दादिगोचराण्याहुः, श्रवणादीनि पञ्च तु । अविवेकैर्दुर्जयानि, हृषीकाणि विशारदाः ॥४२२॥ स शूरः स च मेधावी, सतां स्तुत्यः स एव च । यस्य नो लुण्ट्यते पुण्यधनमिन्द्रियतस्करैः ॥४२३।। अक्षैः पञ्चभिरङ्गस्थैः, शश्वत् खण्डितवैभवः । बाह्यान् जयन् परोलक्षानपि शूरः किमुच्यते ? ॥४२४॥