SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०० श्रीअजितप्रभुचरितम् सर्गः-६ मागधैः पठितोदारविचित्रचरितः कृती । प्रीणितार्थिजनव्यूहः, साकेतपुरमासदत् ॥४०४|| पञ्चभिः कुलकम् ॥ शुचं विस्मारयन् पुत्रदुर्मृत्युप्रभवां रयात् । पितामहस्य चरणावयं विनयतोऽनमत् ॥४०५॥ भैरतेशोऽपि हर्षाश्रुपूरपूर्णविलोचनः । तस्य पृष्ठे निजं पाणिं, न्यस्यति स्म ससम्भ्रमम् ॥४०६।। बुद्ध्वा च राज्यधुर्यं तं, मन्त्रि-सामन्तसम्मतः । अनिच्छन्तमपि प्रौढाग्रहाद्राज्येऽभ्यषिञ्चत ॥४०७॥ स्वयं पुनर्भवदवं, दुःखकीलासमाकुलम् । दारुणं तं हृदा ध्यायन्, विमुखो विषयोच्चयात् ॥४०८॥ अनन्तसौख्यसदनं, यियासुरपुनर्भव[म्] । चारित्रप्राप्तये बद्धस्पृहोऽतिष्ठन्महामतिः ॥४०९।। युग्मम् || इतश्चाऽप्रतिबद्धेन, विहारेण चरन् भुवि । सहस्राम्रवणोद्यानेऽजितेशः समवासरत् ॥४१०॥ अथ सार्द्धा हिरण्यस्य, कोटीादश चक्रभृत् । स्वाम्यागमनशंसिभ्यः, प्रददौ पारितोषिके ॥४११।। साकं भगीरथेनाऽपि, महा निर्गतः पुरात् । गत्वा समवसरणं, नत्वा स्वामिनमस्तवीत् ॥४१२॥ 'जय कल्पद्रुम इव, ज[ग]दङ्गिषु कामद ! । भूर्भुवःस्वविभुस्तुत्य !, द्वैतीयीकजिनेश्वर ! ॥४१३॥ १. सगरः । २. अग्निज्वाला ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy