________________
श्री अजितप्रभुचरितम् सर्गः ६
४१०
आभ्यां मध्याङ्गुलिस्थाभ्यां वाच्यः प्रोक्तविपर्ययः । लेखा सुमृत्युदा मध्ये, तर्जनी - गृहबन्धयोः ||५०८।। श्लिष्टैरङ्गुलिमध्यैः स्यान्नराणां द्रव्यसञ्चयः । छिद्रान्वितैः पुनस्त्यागशीलतां तैः प्रचक्षते ॥ ५०९|| विमलं वर्त्तुलं सौम्यं, सममास्यं प्रशस्यते । ह्रस्वं कृपणताहेतुर्दीर्घं दारिद्यकारणम् ॥५१०॥ लघ्वोष्ठो दुःखितो मत्त्र्त्यः, पीनोष्ठः सुभगः पुनः । भोगी भवेत् प्रलम्बोष्ठो, विषमोष्ठस्तु भीरुकः ॥ ५११॥ समाः शुद्धाः शिखरिणो, घनाश्च दशनाः शुभाः । न पुनर्विषमाः श्यामा, रूक्षाः प्रविरलाश्च ते ॥५१२॥ नृपो द्वात्रिंशता दन्तैरेकहीनैस्तु भोगभाक् । त्रिंशता मध्यमगुणस्ततो हीनैर्विलक्षणः || ५१३ ॥ धन्यानां रसना दीर्घा, श्लक्ष्णा पद्मदलोपमा । चित्रला मद्यपानां स्यात्तालु रक्तं तु शस्यते ॥५१४|| कृष्णं कुलक्षयाय स्यान्नीलं दुःखौघकारणम् । हंसस्वरो नरः स्तुत्यो, निन्दितो वायसस्वरः ॥५१५॥
श्रीहेतुः श्लक्ष्णविवरा, नासिका सरलोन्नता । दुष्टा तु चिपिटा गण्डौ, प्रशस्यौ कूपवर्जितौ ॥५१६॥
आयतौ विपुलौ कर्णौ, लोमशौ च चिरायुषाम् । शस्या पद्मदलाभा दृग् मधुपिङ्गा धनावहा ॥५१७|| १. लक्षणविहीनः ।