________________
४१०
श्रीअजितप्रभुचरितम् सर्गः-६
आभ्यां मध्याङ्गुलिस्थाभ्यां, वाच्यः प्रोक्तविपर्ययः । लेखा सुमृत्युदा मध्ये, तर्जनी-गृहबन्धयोः ॥५०८।। श्लिष्टैरङ्गुलिमध्यैः स्यान्नराणां द्रव्यसञ्चयः । छिद्रान्वितैः पुनस्त्यागशीलतां तैः प्रचक्षते ॥५०९।। विमलं वर्तुलं सौम्यं, सममास्यं प्रशस्यते । हस्वं कृपणताहेतुर्दीधैं दारिकारणम् ॥५१०॥ लघ्वोष्ठो दुःखितो मर्त्यः, पीनोष्ठः सुभगः पुनः । भोगी भवेत् प्रलम्बोष्ठो, विषमोष्ठस्तु भीरुकः ॥५११।। समाः शुद्धाः शिखरिणो, घनाश्च दशनाः शुभाः । न पुनर्विषमाः श्यामा, रूक्षाः प्रविरलाश्च ते ॥५१२॥ नृपो द्वात्रिंशता दन्तैरेकहीनैस्तु भोगभाक् । त्रिंशता मध्यमगुणस्ततो हीनविलक्षणः ॥५१३।। धन्यानां रसना दीर्घा, श्लक्ष्णा पद्मदलोपमा । चित्रला मद्यपानां स्यात्तालु रक्तं तु शस्यते ॥५१४।। कृष्णं कुलक्षयाय स्यान्नीलं दुःखौघकारणम् । हंसस्वरो नरः स्तुत्यो, निन्दितो वायसस्वरः ॥५१५।। श्रीहेतुः श्लक्ष्णविवरा, नासिका सरलोन्नता । दुष्टा तु चिपिटा गण्डौ, प्रशस्यौ कूपवजितौ ॥५१६।। आयतौ विपुलौ की, लोमशौ च चिरायुषाम् । शस्या पद्मदलाभा दृग्, मधुपिङ्गा धनावहा ॥५१७।।
१. लक्षणविहीनः ।