________________
सामुद्रिकशास्त्रम्
४११
नीलाक्षोऽहङ्कृतः श्वेतदृग् ज्ञानी शोणदृग्नृपः । दीर्घाक्षश्चिरजीवी स्याद्, भोगी विपुललोचनः ॥५१८॥ कपोतनय[न]: कामी, गजनेत्रश्चमूपतिः । मार्जारनयनः पापी, कलिकृत्ताम्रचूडदृक् ॥५१९॥ क्रूरास्तिर्यग् निरीक्षन्ते, सरलं सरलाशयाः । सविकाशं पुण्यवन्तः, पापाः पुनरधोमुखम् ॥५२०॥ अन्धात् काणो महाक्रूरः, काणात् केकरनेत्रकः । केकराक्षा[त्] काक(त)राक्षः, प्रेक्षावद्भिनिगद्यते ॥५२१॥ रूक्षा दृग् यस्य निर्हेतु, भ्राम्यतीतस्ततश्चला । परदारादिसक्तोऽसौ, काक(त)रो विपदां पदम् ॥५२२॥ स्युर्मानवन्तः सौभाग्ययुता दीर्घपृथुभ्रवः । स्त्रीविषये प्राप्नुवन्ति, [तुच्छभ्रुवो] महापदः ॥५२३।। धन्यानां भालमर्द्धन्दुसंस्थानं विपुलं मतम् । तुच्छायुषामतितुच्छं, दुःखिना चातिविस्तृतम् ॥५२४।। सताञ्छत्रसमं शीर्षं, केशाश्च मृदवो घनाः । दरिद्राणां पुना रूक्षाः, स्फुटिता मलिना मताः ॥५२५।।
-
-
१. 'अन्धः क्रूरः काणः काणादपि केकरो मनुजात् स्यात् । ___ काणात् केकरतोऽपि क्रूरतरः कातरो भवति' ॥२५४॥ इति सामुद्रिकतिलके प्रथमाधिकारे ॥ २. 'हीणभुमआहिं पुरिसा महिलाकज्जे य बंधया होति' इति कुवलयमालायां पृ.नं. १३०।२१६ । तथा 'इत्थीविसए जायइ महावया तुच्छभमुहाण मिति पुष्पमालायां ॥ २६१ ॥ श्लोकस्य वृत्तौ वणिक्पुत्रकथायां श्लो. ॥४३॥