________________
४१२
श्रीअजितप्रभुचरितम् सर्गः-६
अन्यच्च'धन्यो गतेस्तु मर्त्यस्य,' वर्णः स्नेहस्ततो वरः । स्नेहात् स्वरः स्वरात् सत्त्वं, सर्वं सत्त्वे प्रतिष्ठितम् ॥५२६।। नारीणामपि देहेषु, नरवत् प्रायशो बुधैः । शुभाशुभफलं ज्ञेयं, निःशेषमपि लक्षणम् ॥५२७।। कनिष्ठाद्याः पदाङ्गुल्यो, यस्या भूमिं स्पृशन्ति न । एकं द्वौ त्रीश्चतुरश्च, सा [प]तीन् मारयेत् क्रमात् ॥५२८।। प्रेलम्बन ललाटेन, हन्ति देवरमङ्गना । श्वशुरं तूदरेण स्फिद्वितयेन च वल्लभम् ॥५२९॥ शास्त्रोक्तं लक्षणं स्त्रीणां, कियद्वच्मि शुभाशुभम् । पूर्वसूरिकृतं वृत्तद्वयं तत्सूचकं त्विदम् ॥५३०।। पीनोरुः पीनगण्डा समसितदशना, पद्मपत्रायताक्षी, बिम्बोष्ठी तुङ्गनासा गजगतिगमना, दक्षिणावर्त्तनाभिः । स्निग्धाङ्गी वृत्तवक्त्रा पृथुमृदुजघना, सुस्वरा चारुकेशी, भर्त्ता तस्याः क्षितीशो भवति च तनुजो, विक्रमी सार्वभौमः ॥५३१।।
[स्रग्धरावृत्तम्] १. 'धास्यस्वचिसुवर्णस्य' इति पु.प्रे. ।
तुला-'धन्नो गईण वन्नो, वन्नाओ सुंदरो हवइ सद्दो ।
तत्तोवि वरं सत्तं, सव्वंपि पइट्ठियं सत्ते ॥५४॥' इति पुष्पमालायाम् ॥ २. यस्यास्त्रिणि प्रलम्बानि, ललाटमुदरं भगः । _त्रीणि सा हन्यते नारी, देवरं श्वशुरं पतिम् ॥६२॥
इति सामुद्रिकशास्त्रे स्त्रीलक्षणाधिकारे ॥ तथा 'यस्याः प्रलम्बमलिकं, सा नारी देवरं निजं हन्ति ।४।१८१। पूर्वार्ध ॥
भवति प्रलम्बमुदरं यस्याः सा श्वशुरमाहन्ति ।४।७८। पूर्वार्ध ॥ परुषं रूक्षं चिपिटं स्फिग्युग्मं मांसरहितं न शुभम् । तदपि विलम्बमानं धत्ते वैधव्यमचिरेण ।४।४६।'
इति सामुद्रिकतिलके ॥