SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ चक्षुरिन्द्रियासक्तौ लोलाक्षकथा ४१३ पिङ्गाक्षी कूपगण्डा खरपरुषरवा, स्थूलजङ्घोर्ध्वकेशी, लम्बोष्ठी दीर्घवक्त्रा प्रविरलदशना, श्यामताल्वोष्ठजिह्वा । शुष्काङ्गी संहितभ्रूः कुचयुगविषमा, रोमशा काकजङ्घा, सा नारी वर्जनीया सुतधनरहिता, भ्रष्टशीला च पुंसा ॥५३२॥ [स्रग्धरावृत्तम्] श्रेष्ठिन्निदं प्रसङ्गात् स्त्री-पुंसयोर्लक्षणं स्फुटम् । सक्षेपात् किञ्चन प्रोक्तं, प्रकृतं त्वधुना शृणु ॥५३३॥ 'त्वत्पुत्रस्य शरीरेऽस्ति, सर्वः सल्लक्षणोच्चयः । दृशस्तु लक्षणं बाढं, काक(त)रत्वेन दूषितम् ।।५३४॥ तत्तनूलक्षणैः शस्तैरेष श्रीमान् भविष्यति । दृग्दोषैस्त्वापदो भूयो, भूयोऽपि समवाप्स्यति ।।५३५।। अनियन्त्रितदृग् ह्येष, परदारेषु सन्ततम् । सक्तस्तेनैव दोषेणाऽवश्यं प्राप्स्यति पञ्चताम्' ॥५३६।। श्रुत्वेति श्रेष्ठिशार्दूलो, वज्राहत इव क्षणम् । स्थित्वा निःश्वस्य चाजल्पदनल्पारतिसङ्गतः ॥५३७॥ 'परदारप्रसक्तानां, श्रिया विपुलयाऽपि किम् ? । प्रभूतेनाऽपि शास्त्रेण, किं सुरापायिनां किल ? ॥५३८।। श्रेयो दारिद्यमप्युद्यद्विवेकविमलात्मनाम् । न तु लक्ष्मीरपि प्रौढकलङ्काङ्कितवर्मणाम् ॥५३९।। महते च कलङ्काय, परस्त्रीप्रार्थनं नृणाम् । विशेषेण कुलेऽस्माकं, शारदेन्दुसमुज्ज्वले ॥५४०।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy