________________
४१४
श्रीअजितप्रभुचरितम् सर्गः-६ ममात्मजोऽपि चेदेवं, क्लेशकोटिनिबन्धने । अकार्ये [पतिता] तर्हि, दैवेन मुषितोऽस्मि हा !' ॥५४१।। इत्थं खेदपरं श्रेष्ठिधुर्यं लक्षणपाठकाः । स्माहुरस्तु शुचा भावा, भवन्त्येव हि भाविनः ।।५४२।। सम्मान्य तानथ श्रेष्ठी, विसृज्य च विशारदः । चकार धर्मकर्माणि, जानानो विरसं भवम् ॥५४३।। सुतस्तु तस्य बालत्वादप्यारभ्य चलां दृशम् । रमणीषु सुरूपासु, न्यास्थद्रागभराच्चिरम् ॥५४४।। तरुणीषु रसोत्कर्षात्, स शश्वल्लोललोचनः । अभ्यधीयत लोकेन, लोलाक्ष इति नामतः ॥५४५॥ कलाः क्रमेण गृहंश्च, दुष्टदृष्टिविकारवान् । आसदद्यौवनं काममत्तमातङ्गकाननम् ॥५४६॥ ततश्च मदनोन्मत्तो, भ्राम्यत्येष पुरेऽखिले । अङ्गोपाङ्गेषु रम्येषु, प्रमदानां प्रयुक्तदृक् ॥५४७।। काश्चिद्रूपवतीर्नारीराश्लिष्यद्बलतोऽपि सः । काश्चन प्रार्थयामास, रमयामास काश्चन ॥५४८॥ तस्मिन् व्यतिकरे चैष, वध-बन्धादिभिर्भृशम् । काः काः कदर्थना नाप, पापानामवधिः कुधीः ॥५४९।। अन्यदा प्रमदा रूपशालिनीर्मगधेष्वयम् । निशम्योद्दिश्य वाणिज्यमाप्रष्ट पितरौ रसी ॥५५०॥ ताभ्यामप्यतिखिन्नाभ्यां, विसृष्टो द्रविणं बहु । उपादाय राजगृहे, ययौ परिजनान्वितः ॥५५१॥