SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चक्षुरिन्द्रियासक्तौ लोलाक्षकथा मण्डयित्वा तत्र हट्टं, व्यवहारपरायणः । दिनानि गमयामास, सद्योषावर्ष्मबद्धदृक् ॥५५२॥ अन्येद्युः कस्यचिद्भूपवल्लभस्य मृगेक्षणा । सुरूपा शिबिकारूढाऽऽययौ तस्याऽऽपणान्तिके ॥५५३॥ लोलाक्षो निश्चलन्यस्तनेत्रः प्रत्यङ्गमादरात् । क्षणं तां वीक्षमाणोऽस्थात्, पाषाणघटितो यथा ॥ ५५४॥ विकल्पलक्षाकुलितमनाः स्मरवशस्ततः । कण्ठे तस्या अनात्मज्ञो, धावित्वा लग्नवान् दृढम् ॥५५५॥ तस्याः पदातिवर्गेण, ताडयित्वा ततोऽसकौ । सन्दानितश्चालितश्चाऽर्पयितुं स्वप्रभोर्जवात् ॥ ५५६ ॥ पुरोऽथाऽऽगच्छता तेन, प्रभुणाऽखिलमप्यदः । वृत्तं विविदुषा तस्य, सर्वस्वं जगृहे द्रुतम् ॥५५७॥ स च यावन्नृपस्यार्पयितुं प्रस्थापितः पुरः । तावदागात् पुरश्रेष्ठी, विद्रुमस्तत्पितुः सुहृत् ॥५५८॥ बहु प्रदाय स स्वस्वं, प्रभूताच्चोपरोधतः । स्नेहेन कृपया चैनं, विमोच्य स्वगृहेऽनयत् ॥५५९ ।। पत्नीं धनवतीनाम्नीमभ्यधत्त च सादरम् । 'भ्रातुष्पुत्रोऽयमस्माकं, सत्कर्त्तव्यः प्रियेऽनिशम् ॥५६०|| ततोऽयं विद्रुमश्रेष्ठिमन्दिरे प्राप्तगौरवः । यान्तमप्यविदन् कालं, तस्थिवानुरुसौख्यतः ॥५६१ ॥ १. निजद्रव्यम् । ४१५
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy