________________
श्रीअजितप्रभुचरितम् सर्गः ६
४१६
तत्रापि च दुराकृतः श्रेष्ठिजायां निरन्तरम् । स्थितां सुप्तां चलन्तीं वा, साङ्गोपाङ्गं निरैक्षत ॥५६२||
एकदा च रहस्येतामत्यन्तं मदनाकुलः ।
प्रार्थयामास लोलाक्षो, नैच्छत् सा तु कथञ्चन ॥५६३||
प्रार्थनातः पुनर्नोपरराम स कदाचन । अनिच्छन्तीमपि रहो, लब्ध्वाऽन्येद्युरभुक्त च ॥ ५६४|| सुखं गृद्धा ततः सापि तस्मिन् भृशमरज्यत । श्रेष्ठी च विद्रुमोऽज्ञासीत्तद्दुर्वृत्तं तयोः क्रमात् ॥ ५६५॥ किञ्चिद् ब्रवीति नो यावच्छ्रेष्ठी निजगुरुत्वतः । ताभ्यां भृशं सचेतोभ्यां तावन्मन्त्रितमीदृशम् ॥५६६ ॥ किमनेनाऽन्तर्गडुना ?, विनाश्यैनं रयात्ततः । निरन्तरायं सौख्यानि, चिररात्रा भुव ॥ ५६७॥ इति निश्चित्य लोलाक्षः, पिशाच इव मूर्तिमान् । रात्रौ सुप्तममुं यावत्, क्षुर्या हन्तुं प्रवृत्तवान् ॥ ५६८ ।। तावज्जागरितो दैवाद्, घातं वञ्चितवानयम् ।
,
भिया ह्रिया च स ततः पलायामास पातकी ॥५६९॥ अथ दध्यौ हृदि श्रेष्ठी, धिगहो ! मोहजृम्भितम् । यदकृत्यरताः कृत्याऽकृत्यानि गणयन्ति न ॥ ५७० ॥ मयैष मोचितः प्राप्तो, विपदं मारणान्तिकीम् । गृहे च स्थापितः पुत्र, इव दृष्टश्च सन्ततम् ॥५७१|| तथाऽप्यहो ! प्रियायां मे, सक्तस्तुष्टश्च नेयता । अन्त्यजेभ्योऽपि हीनो धिग्, यन्मामपि जिघांसति ॥५७२॥