SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ चक्षुरिन्द्रियासक्तौ लोलाक्षकथा न प्राक् स्वल्पोऽपि भार्याया, विकारोऽदर्शि जातुचित् । इदानीं त्वस्य सङ्गेन, साऽप्येवं स्म व्यवस्यति ॥५७३॥ यद्वाऽलीकमिदं दोषोत्पत्तिर्यत् परसङ्गतः । विषभृच्छीर्षगोऽपीह मणिर्दृष्टो विषापहृत् ॥५७४|| तदियं सद्मनोऽर्थस्य प्राणानां चेश्वरीकृता । यद्येवं दारुणा जज्ञे, गृहवासेन तत् कृतम् ॥५७५॥ इति भावयन् श्रेष्ठी, विरक्तो गृहवासतः । अर्हदर्चादिकार्येषु, व्ययित्वा सकलां श्रियम् ॥५७६ ॥ परिव्रज्यां [च] विबुधसूरिपार्श्वे प्रपन्नवान् । लोलाक्षेन समं चक्रे, गेहवासं पैरा पुनः || ५७७ || [युग्मम्] , लोलाक्षो धनवत्यङ्गाभरणोच्चयमूल्यतः । पुरे तत्रैव वाणिज्यं, विदधाति स्म किञ्चन ॥ ५७८॥ जरासन्धान्वयोद्भूतो, भूपः समरसिन्धुरः । पाति प्रजास्तदा तत्र, द्वेषिद्रुमपरश्वधः ॥ ५७९ ॥ स वसन्तोत्सवेऽन्येद्युरन्तःपुरसमन्वितः । समं सामन्त-सचिवादिभिरुद्यानमीयिवान् ॥५८० तत्र पौरजनोऽप्येतः, प्रवृत्त: क्रीडितुं मुदा । लोलाक्षोऽप्याययावाशु, प्रवृद्धोरुकुतूहल: ॥ ५८१ ॥ विकारैर्मान्मथैः पूर्णो, लोलाक्षस्तत्र सञ्चरन् । याप्ययानाधिरूढाया, नृपपत्न्या मनोहरम् ||५८२॥ १. धनवती । ४१७
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy