Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 464
________________ ४३५ स्पर्शनेन्द्रियासक्तौ सुकुमालिकानृपकथा स तु तत्रापि सार्थादिभ्रष्टं कञ्चन मानुषम् । प्राप्य हत्वा च भुजानः, कुधीरगमयद्दिनान् ।।७५८।। मेखलायां गिरेरेकाकिन्याः कस्याश्चिदन्यदा । पुलिन्द्याः शिशुमुद्दाल्य, बुभुजे जडशेखरः ॥७५९॥ ततश्च तूर्णमायातः, पुलिन्दः प्रज्वलत्क्रुधा । तं सर्वाङ्गं शरैस्तीक्ष्णैः, प्रहृत्य प्रापयन्मृतिम् ॥७६०॥ अप्रतिष्ठाननरके, सप्तम्यां भुवि नारकः । उत्कृष्टायुः समुत्पेदे, रसलोलो रसेश्वरः ॥७६१।। पुरतोऽपि च संसारमनन्तं स भ्रमिष्यति । तद्विद्धि सकलाक्षेषु, दुर्जयां रसनां नृप ! ॥७६२॥ भूमीशो विमलयशाः, श्रुत्वैवं ज्ञानिनोऽन्तिके । प्रव्रज्य विजितस्रोताः, सिद्धोऽभूत् सिद्धकेवलः ॥७६३॥ ज्ञात्वा [रसा] निति प्रान्ते, विरसान् कथयाऽमुया । तेषु मा लोलतां कृढ्वं, सिद्धान्तरसलालसाः ॥७६४|| इति रसनेन्द्रिये रसलोलनृपकथा ॥ ग्रं. ७८ ॥ अमुञ्चत् स्पर्शनासक्तः, पार्थिवः सुकुमालिकाम् । व्यसनं राज्यभ्रंशाचं, यथा[ऽऽप] श्रूयतां तथा ॥७६५।। वसन्तपुरसज्ञेऽभूत्, पुरे प्रा[ज्य]द्धिशालिनि । जितशत्रुनूपोऽनेकविलासवशमानसः ॥७६६।। तस्याऽग्रमहिषी जज्ञे, नामतः सुकुमालिका । शिरीषसुममृद्वङ्गी, वर्णतो जितकाञ्चना ॥७६७॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502